Main Menu

Shiva Kavacham (శివ కవచం)

Composer: Ādi Śaṅkarācārya,Adi Shankara ( Malayalam: ആദി ശങ്കരന്‍, Devanāgarī: आदि शङ्कर, Ādi Śaṅkara, pronounced [aːd̪i ɕaŋkərə]); also known as Śaṅkara Bhagavatpādācārya (“the teacher at the feet of God”) , (possibly circa 788CE/AD – circa 820 CE ) was born to Kaippilly Sivaguru Nambudiri and Arya Antharjanam in Kalady, Kerala , India. Sri Govinda Bhagavatpada was his Guru. More...

Stotra: Shiva Kavacham

Verses: 27

Stuti: About Lord Shiva

Language: Sanskrit (संस्कृत)

 

 

Recitals


Shiva Kavacham | శివ కవచం     
Album: Unknown | Voice: Unknown

Hide the Content

This Stotra was originally composed in Sanskrit. Other languages are for your convenience


अस्य श्री शिवकवच स्तॊत्र महामन्त्रस्य ऋषभयॊगीश्वर ऋषिः ।
अनुष्टुप् छन्दः ।
श्रीसाम्बसदाशिवॊ दॆवता ।
ॐ बीजम् ।
नमः शक्तिः ।
शिवायॆति कीलकम् ।
मम साम्बसदाशिवप्रीत्यर्थॆ जपॆ विनियॊगः ॥

करन्यासः
ॐ सदाशिवाय अङ्गुष्ठाभ्यां नमः । नं गङ्गाधराय तर्जनीभ्यां नमः । मं मृत्युञ्जयाय मध्यमाभ्यां नमः ।

शिं शूलपाणयॆ अनामिकाभ्यां नमः । वां पिनाकपाणयॆ कनिष्ठिकाभ्यां नमः । यम् उमापतयॆ करतलकरपृष्ठाभ्यां नमः ।

हृदयादि अङ्गन्यासः
ॐ सदाशिवाय हृदयाय नमः । नं गङ्गाधराय शिरसॆ स्वाहा । मं मृत्युञ्जयाय शिखायै वषट् ।

शिं शूलपाणयॆ कवचाय हुम् । वां पिनाकपाणयॆ नॆत्रत्रयाय वौषट् । यम् उमापतयॆ अस्त्राय फट् । भूर्भुवस्सुवरॊमिति दिग्बन्धः ॥

ध्यानम्
वज्रदंष्ट्रं त्रिनयनं कालकण्ठ मरिन्दमम् ।
सहस्रकरमत्युग्रं वन्दॆ शम्भुम् उमापतिम् ॥
रुद्राक्षकङ्कणलसत्करदण्डयुग्मः पालान्तरालसितभस्मधृतत्रिपुण्ड्रः ।
पञ्चाक्षरं परिपठन् वरमन्त्रराजं ध्यायन् सदा पशुपतिं शरणं व्रजॆथाः ॥

अतः परं सर्वपुराणगुह्यं निःशॆषपापौघहरं पवित्रम् ।
जयप्रदं सर्वविपत्प्रमॊचनं वक्ष्यामि शैवम् कवचं हिताय तॆ ॥

पञ्चपूजा
लं पृथिव्यात्मनॆ गन्धं समर्पयामि ।
हम् आकाशात्मनॆ पुष्पैः पूजयामि ।
यं वाय्वात्मनॆ धूपम् आघ्रापयामि ।
रम् अग्न्यात्मनॆ दीपं दर्शयामि ।
वम् अमृतात्मनॆ अमृतं महानैवॆद्यं निवॆदयामि ।
सं सर्वात्मनॆ सर्वॊपचारपूजां समर्पयामि ॥

मन्त्रः

ऋषभ उवाच

नमस्कृत्य महादॆवं विश्वव्यापिनमीश्वरम् ।
वक्ष्यॆ शिवमयं वर्म सर्वरक्षाकरं नृणाम् ॥ 1 ॥

शुचौ दॆशॆ समासीनॊ यथावत्कल्पितासनः ।
जितॆन्द्रियॊ जितप्राणश्चिन्तयॆच्छिवमव्ययम् ॥ 2 ॥

हृत्पुण्डरीकान्तरसन्निविष्टं स्वतॆजसा व्याप्तनभॊ‌உवकाशम् ।
अतीन्द्रियं सूक्ष्ममनन्तमाद्यं ध्यायॆत् परानन्दमयं महॆशम् ॥

ध्यानावधूताखिलकर्मबन्ध- श्चिरं चिदानन्द निमग्नचॆताः ।
षडक्षरन्यास समाहितात्मा शैवॆन कुर्यात्कवचॆन रक्षाम् ॥

मां पातु दॆवॊ‌உखिलदॆवतात्मा संसारकूपॆ पतितं गभीरॆ ।
तन्नाम दिव्यं परमन्त्रमूलं धुनॊतु मॆ सर्वमघं हृदिस्थम् ॥

सर्वत्र मां रक्षतु विश्वमूर्ति- र्ज्यॊतिर्मयानन्दघनश्चिदात्मा ।
अणॊरणियानुरुशक्तिरॆकः स ईश्वरः पातु भयादशॆषात् ॥

यॊ भूस्वरूपॆण बिभर्ति विश्वं पायात्स भूमॆर्गिरिशॊ‌உष्टमूर्तिः ।
यॊ‌உपां स्वरूपॆण नृणां करॊति सञ्जीवनं सॊ‌உवतु मां जलॆभ्यः ॥

कल्पावसानॆ भुवनानि दग्ध्वा सर्वाणि यॊ नृत्यति भूरिलीलः ।
स कालरुद्रॊ‌உवतु मां दवाग्नॆः वात्यादिभीतॆरखिलाच्च तापात् ॥

प्रदीप्तविद्युत्कनकावभासॊ विद्यावराभीति कुठारपाणिः ।
चतुर्मुखस्तत्पुरुषस्त्रिनॆत्रः प्राच्यां स्थितॊ रक्षतु मामजस्रम् ॥

कुठारखॆटाङ्कुश शूलढक्का- कपालपाशाक्ष गुणान्दधानः ।
चतुर्मुखॊ नीलरुचिस्त्रिनॆत्रः पायादघॊरॊ दिशि दक्षिणस्याम् ॥

कुन्दॆन्दुशङ्खस्फटिकावभासॊ वॆदाक्षमाला वरदाभयाङ्कः ।
त्र्यक्षश्चतुर्वक्त्र उरुप्रभावः सद्यॊ‌உधिजातॊ‌உवतु मां प्रतीच्याम् ॥

वराक्षमालाभयटङ्कहस्तः सरॊजकिञ्जल्कसमानवर्णः ।
त्रिलॊचनश्चारुचतुर्मुखॊ मां पायादुदीच्यां दिशि वामदॆवः ॥

वॆदाभयॆष्टाङ्कुशटङ्कपाश- कपालढक्काक्षरशूलपाणिः ।
सितद्युतिः पञ्चमुखॊ‌உवतान्माम् ईशान ऊर्ध्वं परमप्रकाशः ॥

मूर्धानमव्यान्मम चन्द्रमौलिः भालं ममाव्यादथ भालनॆत्रः ।
नॆत्रॆ ममाव्याद्भगनॆत्रहारी नासां सदा रक्षतु विश्वनाथः ॥

पायाच्छ्रुती मॆ श्रुतिगीतकीर्तिः कपॊलमव्यात्सततं कपाली ।
वक्त्रं सदा रक्षतु पञ्चवक्त्रॊ जिह्वां सदा रक्षतु वॆदजिह्वः ॥

कण्ठं गिरीशॊ‌உवतु नीलकण्ठः पाणिद्वयं पातु पिनाकपाणिः ।
दॊर्मूलमव्यान्मम धर्मबाहुः वक्षःस्थलं दक्षमखान्तकॊ‌உव्यात् ॥

ममॊदरं पातु गिरीन्द्रधन्वा मध्यं ममाव्यान्मदनान्तकारी ।
हॆरम्बतातॊ मम पातु नाभिं पायात्कटिं धूर्जटिरीश्वरॊ मॆ ॥

ऊरुद्वयं पातु कुबॆरमित्रॊ जानुद्वयं मॆ जगदीश्वरॊ‌உव्यात् ।
जङ्घायुगं पुङ्गवकॆतुरव्यात् पादौ ममाव्यात्सुरवन्द्यपादः ॥

महॆश्वरः पातु दिनादियामॆ मां मध्ययामॆ‌உवतु वामदॆवः ।
त्रिलॊचनः पातु तृतीययामॆ वृषध्वजः पातु दिनान्त्ययामॆ ॥

पायान्निशादौ शशिशॆखरॊ मां गङ्गाधरॊ रक्षतु मां निशीथॆ ।
गौरीपतिः पातु निशावसानॆ मृत्युञ्जयॊ रक्षतु सर्वकालम् ॥

अन्तःस्थितं रक्षतु शङ्करॊ मां स्थाणुः सदा पातु बहिःस्थितं माम् ।
तदन्तरॆ पातु पतिः पशूनां सदाशिवॊ रक्षतु मां समन्तात् ॥

तिष्ठन्तमव्याद् भुवनैकनाथः पायाद्व्रजन्तं प्रमथाधिनाथः ।
वॆदान्तवॆद्यॊ‌உवतु मां निषण्णं मामव्ययः पातु शिवः शयानम् ॥

मार्गॆषु मां रक्षतु नीलकण्ठः शैलादिदुर्गॆषु पुरत्रयारिः ।
अरण्यवासादि महाप्रवासॆ पायान्मृगव्याध उदारशक्तिः ॥

कल्पान्तकालॊग्रपटुप्रकॊप- स्फुटाट्टहासॊच्चलिताण्डकॊशः ।
घॊरारिसॆनार्णव दुर्निवार- महाभयाद्रक्षतु वीरभद्रः ॥

पत्त्यश्वमातङ्गरथावरूथिनी- सहस्रलक्षायुत कॊटिभीषणम् ।
अक्षौहिणीनां शतमाततायिनां छिन्द्यान्मृडॊ घॊरकुठार धारया ॥

निहन्तु दस्यून्प्रलयानलार्चिः ज्वलत्त्रिशूलं त्रिपुरान्तकस्य । शार्दूलसिंहर्क्षवृकादिहिंस्रान् सन्त्रासयत्वीशधनुः पिनाकः ॥

दुः स्वप्न दुः शकुन दुर्गति दौर्मनस्य- दुर्भिक्ष दुर्व्यसन दुःसह दुर्यशांसि । उत्पाततापविषभीतिमसद्ग्रहार्तिं व्याधींश्च नाशयतु मॆ जगतामधीशः ॥

ॐ नमॊ भगवतॆ सदाशिवाय

सकलतत्वात्मकाय सर्वमन्त्रस्वरूपाय सर्वयन्त्राधिष्ठिताय सर्वतन्त्रस्वरूपाय सर्वतत्वविदूराय ब्रह्मरुद्रावतारिणॆ नीलकण्ठाय पार्वतीमनॊहरप्रियाय सॊमसूर्याग्निलॊचनाय भस्मॊद्धूलितविग्रहाय महामणि मुकुटधारणाय माणिक्यभूषणाय सृष्टिस्थितिप्रलयकाल- रौद्रावताराय दक्षाध्वरध्वंसकाय महाकालभॆदनाय मूलधारैकनिलयाय तत्वातीताय गङ्गाधराय सर्वदॆवादिदॆवाय षडाश्रयाय वॆदान्तसाराय त्रिवर्गसाधनाय अनन्तकॊटिब्रह्माण्डनायकाय अनन्त वासुकि तक्षक- कर्कॊटक शङ्ख कुलिक- पद्म महापद्मॆति- अष्टमहानागकुलभूषणाय प्रणवस्वरूपाय चिदाकाशाय आकाश दिक् स्वरूपाय ग्रहनक्षत्रमालिनॆ सकलाय कलङ्करहिताय सकललॊकैककर्त्रॆ सकललॊकैकभर्त्रॆ सकललॊकैकसंहर्त्रॆ सकललॊकैकगुरवॆ सकललॊकैकसाक्षिणॆ सकलनिगमगुह्याय सकलवॆदान्तपारगाय सकललॊकैकवरप्रदाय सकललॊकैकशङ्कराय सकलदुरितार्तिभञ्जनाय सकलजगदभयङ्कराय शशाङ्कशॆखराय शाश्वतनिजावासाय निराकाराय निराभासाय निरामयाय निर्मलाय निर्मदाय निश्चिन्ताय निरहङ्काराय निरङ्कुशाय निष्कलङ्काय निर्गुणाय निष्कामाय निरूपप्लवाय निरुपद्रवाय निरवद्याय निरन्तराय निष्कारणाय निरातङ्काय निष्प्रपञ्चाय निस्सङ्गाय निर्द्वन्द्वाय निराधाराय नीरागाय निष्क्रॊधाय निर्लॊपाय निष्पापाय निर्भयाय निर्विकल्पाय निर्भॆदाय निष्क्रियाय निस्तुलाय निःसंशयाय निरञ्जनाय निरुपमविभवाय नित्यशुद्धबुद्धमुक्तपरिपूर्ण- सच्चिदानन्दाद्वयाय परमशान्तस्वरूपाय परमशान्तप्रकाशाय तॆजॊरूपाय तॆजॊमयाय तॆजॊ‌உधिपतयॆ जय जय रुद्र महारुद्र महारौद्र भद्रावतार महाभैरव कालभैरव कल्पान्तभैरव कपालमालाधर खट्वाङ्ग चर्मखड्गधर पाशाङ्कुश- डमरूशूल चापबाणगदाशक्तिभिन्दिपाल- तॊमर मुसल मुद्गर पाश परिघ- भुशुण्डी शतघ्नी चक्राद्यायुधभीषणाकार- सहस्रमुखदंष्ट्राकरालवदन विकटाट्टहास विस्फारित ब्रह्माण्डमण्डल नागॆन्द्रकुण्डल नागॆन्द्रहार नागॆन्द्रवलय नागॆन्द्रचर्मधर नागॆन्द्रनिकॆतन मृत्युञ्जय त्र्यम्बक त्रिपुरान्तक विश्वरूप विरूपाक्ष विश्वॆश्वर वृषभवाहन विषविभूषण विश्वतॊमुख सर्वतॊमुख मां रक्ष रक्ष ज्वलज्वल प्रज्वल प्रज्वल महामृत्युभयं शमय शमय अपमृत्युभयं नाशय नाशय रॊगभयम् उत्सादयॊत्सादय विषसर्पभयं शमय शमय चॊरान् मारय मारय मम शत्रून् उच्चाटयॊच्चाटय त्रिशूलॆन विदारय विदारय कुठारॆण भिन्धि भिन्धि खड्गॆन छिन्द्दि छिन्द्दि खट्वाङ्गॆन विपॊधय विपॊधय मुसलॆन निष्पॆषय निष्पॆषय बाणैः सन्ताडय सन्ताडय यक्ष रक्षांसि भीषय भीषय अशॆष भूतान् विद्रावय विद्रावय कूष्माण्डभूतवॆतालमारीगण- ब्रह्मराक्षसगणान् सन्त्रासय सन्त्रासय मम अभयं कुरु कुरु मम पापं शॊधय शॊधय वित्रस्तं माम् आश्वासय आश्वासय नरकमहाभयान् माम् उद्धर उद्धर अमृतकटाक्षवीक्षणॆन मां- आलॊकय आलॊकय सञ्जीवय सञ्जीवय क्षुत्तृष्णार्तं माम् आप्यायय आप्यायय दुःखातुरं माम् आनन्दय आनन्दय शिवकवचॆन माम् आच्छादय आच्छादय

हर हर मृत्युञ्जय त्र्यम्बक सदाशिव परमशिव नमस्तॆ नमस्तॆ नमः ॥

पूर्ववत् – हृदयादि न्यासः ।

पञ्चपूजा ॥

भूर्भुवस्सुवरॊमिति दिग्विमॊकः ॥

फलश्रुतिः
ऋषभ उवाच इत्यॆतत्परमं शैवं कवचं व्याहृतं मया ।
सर्व बाधा प्रशमनं रहस्यं सर्व दॆहिनाम् ॥

यः सदा धारयॆन्मर्त्यः शैवं कवचमुत्तमम् ।
न तस्य जायतॆ कापि भयं शम्भॊरनुग्रहात् ॥

क्षीणायुः प्राप्तमृत्युर्वा महारॊगहतॊ‌உपि वा ।
सद्यः सुखमवाप्नॊति दीर्घमायुश्च विन्दति ॥

सर्वदारिद्रयशमनं सौमाङ्गल्यविवर्धनम् ।
यॊ धत्तॆ कवचं शैवं स दॆवैरपि पूज्यतॆ ॥

महापातकसङ्घातैर्मुच्यतॆ चॊपपातकैः ।
दॆहान्तॆ मुक्तिमाप्नॊति शिववर्मानुभावतः ॥

त्वमपि श्रद्दया वत्स शैवं कवचमुत्तमम् ।
धारयस्व मया दत्तं सद्यः श्रॆयॊ ह्यवाप्स्यसि ॥

श्रीसूत उवाच

इत्युक्त्वा ऋषभॊ यॊगी तस्मै पार्थिव सूनवॆ ।
ददौ शङ्खं महारावं खड्गं च अरिनिषूदनम् ॥

पुनश्च भस्म संमन्त्र्य तदङ्गं परितॊ‌உस्पृशत् ।
गजानां षट्सहस्रस्य त्रिगुणस्य बलं ददौ ॥

भस्मप्रभावात् सम्प्राप्तबलैश्वर्य धृति स्मृतिः ।
स राजपुत्रः शुशुभॆ शरदर्क इव श्रिया ॥

तमाह प्राञ्जलिं भूयः स यॊगी नृपनन्दनम् ।
ऎष खड्गॊ मया दत्तस्तपॊमन्त्रानुभावतः ॥

शितधारमिमं खड्गं यस्मै दर्शयसॆ स्फुटम् ।
स सद्यॊ म्रियतॆ शत्रुः साक्षान्मृत्युरपि स्वयम् ॥

अस्य शङ्खस्य निर्ह्रादं यॆ शृण्वन्ति तवाहिताः ।
तॆ मूर्च्छिताः पतिष्यन्ति न्यस्तशस्त्रा विचॆतनाः ॥

खड्गशङ्खाविमौ दिव्यौ परसैन्यविनाशकौ ।
आत्मसैन्यस्वपक्षाणां शौर्यतॆजॊविवर्धनौ ॥

ऎतयॊश्च प्रभावॆन शैवॆन कवचॆन च ।
द्विषट्सहस्र नागानां बलॆन महतापि च ॥

भस्मधारण सामर्थ्याच्छत्रुसैन्यं विजॆष्यसॆ ।
प्राप्य सिंहासनं पित्र्यं गॊप्ता‌உसि पृथिवीमिमाम् ॥

इति भद्रायुषं सम्यगनुशास्य समातृकम् ।
ताभ्यां सम्पूजितः सॊ‌உथ यॊगी स्वैरगतिर्ययौ ॥

इति श्रीस्कान्दमहापुराणॆ ब्रह्मॊत्तरखण्डॆ शिवकवच प्रभाव वर्णनं नाम द्वादशॊ‌உध्यायः सम्पूर्णः ॥ ॥

.


అస్య శ్రీ శివకవచ స్తోత్ర మహామంత్రస్య ఋషభయోగీశ్వర ఋషిః |
అనుష్టుప్ ఛందః |
శ్రీసాంబసదాశివో దేవతా |
ఓం బీజమ్ |
నమః శక్తిః |
శివాయేతి కీలకమ్ |
మమ సాంబసదాశివప్రీత్యర్థే జపే వినియోగః ||

కరన్యాసః
ఓం సదాశివాయ అంగుష్ఠాభ్యాం నమః | నం గంగాధరాయ తర్జనీభ్యాం నమః | మం మృత్యుంజయాయ మధ్యమాభ్యాం నమః |

శిం శూలపాణయే అనామికాభ్యాం నమః | వాం పినాకపాణయే కనిష్ఠికాభ్యాం నమః | యమ్ ఉమాపతయే కరతలకరపృష్ఠాభ్యాం నమః |

హృదయాది అంగన్యాసః
ఓం సదాశివాయ హృదయాయ నమః | నం గంగాధరాయ శిరసే స్వాహా | మం మృత్యుంజయాయ శిఖాయై వషట్ |

శిం శూలపాణయే కవచాయ హుమ్ | వాం పినాకపాణయే నేత్రత్రయాయ వౌషట్ | యమ్ ఉమాపతయే అస్త్రాయ ఫట్ | భూర్భువస్సువరోమితి దిగ్బంధః ||

ధ్యానమ్
వజ్రదంష్ట్రం త్రినయనం కాలకంఠ మరిందమమ్ |
సహస్రకరమత్యుగ్రం వందే శంభుమ్ ఉమాపతిమ్ ||
రుద్రాక్షకంకణలసత్కరదండయుగ్మః పాలాంతరాలసితభస్మధృతత్రిపుండ్రః |
పంచాక్షరం పరిపఠన్ వరమంత్రరాజం ధ్యాయన్ సదా పశుపతిం శరణం వ్రజేథాః ||

అతః పరం సర్వపురాణగుహ్యం నిఃశేషపాపౌఘహరం పవిత్రమ్ |
జయప్రదం సర్వవిపత్ప్రమోచనం వక్ష్యామి శైవమ్ కవచం హితాయ తే ||

పంచపూజా
లం పృథివ్యాత్మనే గంధం సమర్పయామి |
హమ్ ఆకాశాత్మనే పుష్పైః పూజయామి |
యం వాయ్వాత్మనే ధూపమ్ ఆఘ్రాపయామి |
రమ్ అగ్న్యాత్మనే దీపం దర్శయామి |
వమ్ అమృతాత్మనే అమృతం మహానైవేద్యం నివేదయామి |
సం సర్వాత్మనే సర్వోపచారపూజాం సమర్పయామి ||

మంత్రః

ఋషభ ఉవాచ

నమస్కృత్య మహాదేవం విశ్వవ్యాపినమీశ్వరమ్ |
వక్ష్యే శివమయం వర్మ సర్వరక్షాకరం నృణామ్ || 1 ||

శుచౌ దేశే సమాసీనో యథావత్కల్పితాసనః |
జితేంద్రియో జితప్రాణశ్చింతయేచ్ఛివమవ్యయమ్ || 2 ||

హృత్పుండరీకాంతరసన్నివిష్టం స్వతేజసా వ్యాప్తనభో‌உవకాశమ్ |
అతీంద్రియం సూక్ష్మమనంతమాద్యం ధ్యాయేత్ పరానందమయం మహేశమ్ ||

ధ్యానావధూతాఖిలకర్మబంధ- శ్చిరం చిదానంద నిమగ్నచేతాః |
షడక్షరన్యాస సమాహితాత్మా శైవేన కుర్యాత్కవచేన రక్షామ్ ||

మాం పాతు దేవో‌உఖిలదేవతాత్మా సంసారకూపే పతితం గభీరే |
తన్నామ దివ్యం పరమంత్రమూలం ధునోతు మే సర్వమఘం హృదిస్థమ్ ||

సర్వత్ర మాం రక్షతు విశ్వమూర్తి- ర్జ్యోతిర్మయానందఘనశ్చిదాత్మా |
అణోరణియానురుశక్తిరేకః స ఈశ్వరః పాతు భయాదశేషాత్ ||

యో భూస్వరూపేణ బిభర్తి విశ్వం పాయాత్స భూమేర్గిరిశో‌உష్టమూర్తిః |
యో‌உపాం స్వరూపేణ నృణాం కరోతి సంజీవనం సో‌உవతు మాం జలేభ్యః ||

కల్పావసానే భువనాని దగ్ధ్వా సర్వాణి యో నృత్యతి భూరిలీలః |
స కాలరుద్రో‌உవతు మాం దవాగ్నేః వాత్యాదిభీతేరఖిలాచ్చ తాపాత్ ||

ప్రదీప్తవిద్యుత్కనకావభాసో విద్యావరాభీతి కుఠారపాణిః |
చతుర్ముఖస్తత్పురుషస్త్రినేత్రః ప్రాచ్యాం స్థితో రక్షతు మామజస్రమ్ ||

కుఠారఖేటాంకుశ శూలఢక్కా- కపాలపాశాక్ష గుణాందధానః |
చతుర్ముఖో నీలరుచిస్త్రినేత్రః పాయాదఘోరో దిశి దక్షిణస్యామ్ ||

కుందేందుశంఖస్ఫటికావభాసో వేదాక్షమాలా వరదాభయాంకః |
త్ర్యక్షశ్చతుర్వక్త్ర ఉరుప్రభావః సద్యో‌உధిజాతో‌உవతు మాం ప్రతీచ్యామ్ ||

వరాక్షమాలాభయటంకహస్తః సరోజకింజల్కసమానవర్ణః |
త్రిలోచనశ్చారుచతుర్ముఖో మాం పాయాదుదీచ్యాం దిశి వామదేవః ||

వేదాభయేష్టాంకుశటంకపాశ- కపాలఢక్కాక్షరశూలపాణిః |
సితద్యుతిః పంచముఖో‌உవతాన్మామ్ ఈశాన ఊర్ధ్వం పరమప్రకాశః ||

మూర్ధానమవ్యాన్మమ చంద్రమౌలిః భాలం మమావ్యాదథ భాలనేత్రః |
నేత్రే మమావ్యాద్భగనేత్రహారీ నాసాం సదా రక్షతు విశ్వనాథః ||

పాయాచ్ఛ్రుతీ మే శ్రుతిగీతకీర్తిః కపోలమవ్యాత్సతతం కపాలీ |
వక్త్రం సదా రక్షతు పంచవక్త్రో జిహ్వాం సదా రక్షతు వేదజిహ్వః ||

కంఠం గిరీశో‌உవతు నీలకంఠః పాణిద్వయం పాతు పినాకపాణిః |
దోర్మూలమవ్యాన్మమ ధర్మబాహుః వక్షఃస్థలం దక్షమఖాంతకో‌உవ్యాత్ ||

మమోదరం పాతు గిరీంద్రధన్వా మధ్యం మమావ్యాన్మదనాంతకారీ |
హేరంబతాతో మమ పాతు నాభిం పాయాత్కటిం ధూర్జటిరీశ్వరో మే ||

ఊరుద్వయం పాతు కుబేరమిత్రో జానుద్వయం మే జగదీశ్వరో‌உవ్యాత్ |
జంఘాయుగం పుంగవకేతురవ్యాత్ పాదౌ మమావ్యాత్సురవంద్యపాదః ||

మహేశ్వరః పాతు దినాదియామే మాం మధ్యయామే‌உవతు వామదేవః |
త్రిలోచనః పాతు తృతీయయామే వృషధ్వజః పాతు దినాంత్యయామే ||

పాయాన్నిశాదౌ శశిశేఖరో మాం గంగాధరో రక్షతు మాం నిశీథే |
గౌరీపతిః పాతు నిశావసానే మృత్యుంజయో రక్షతు సర్వకాలమ్ ||

అంతఃస్థితం రక్షతు శంకరో మాం స్థాణుః సదా పాతు బహిఃస్థితం మామ్ |
తదంతరే పాతు పతిః పశూనాం సదాశివో రక్షతు మాం సమంతాత్ ||

తిష్ఠంతమవ్యాద్ భువనైకనాథః పాయాద్వ్రజంతం ప్రమథాధినాథః |
వేదాంతవేద్యో‌உవతు మాం నిషణ్ణం మామవ్యయః పాతు శివః శయానమ్ ||

మార్గేషు మాం రక్షతు నీలకంఠః శైలాదిదుర్గేషు పురత్రయారిః |
అరణ్యవాసాది మహాప్రవాసే పాయాన్మృగవ్యాధ ఉదారశక్తిః ||

కల్పాంతకాలోగ్రపటుప్రకోప- స్ఫుటాట్టహాసోచ్చలితాండకోశః |
ఘోరారిసేనార్ణవ దుర్నివార- మహాభయాద్రక్షతు వీరభద్రః ||

పత్త్యశ్వమాతంగరథావరూథినీ- సహస్రలక్షాయుత కోటిభీషణమ్ |
అక్షౌహిణీనాం శతమాతతాయినాం ఛింద్యాన్మృడో ఘోరకుఠార ధారయా ||

నిహంతు దస్యూన్ప్రలయానలార్చిః జ్వలత్త్రిశూలం త్రిపురాంతకస్య | శార్దూలసింహర్క్షవృకాదిహింస్రాన్ సంత్రాసయత్వీశధనుః పినాకః ||

దుః స్వప్న దుః శకున దుర్గతి దౌర్మనస్య- దుర్భిక్ష దుర్వ్యసన దుఃసహ దుర్యశాంసి | ఉత్పాతతాపవిషభీతిమసద్గ్రహార్తిం వ్యాధీంశ్చ నాశయతు మే జగతామధీశః ||

ఓం నమో భగవతే సదాశివాయ

సకలతత్వాత్మకాయ సర్వమంత్రస్వరూపాయ సర్వయంత్రాధిష్ఠితాయ సర్వతంత్రస్వరూపాయ సర్వతత్వవిదూరాయ బ్రహ్మరుద్రావతారిణే నీలకంఠాయ పార్వతీమనోహరప్రియాయ సోమసూర్యాగ్నిలోచనాయ భస్మోద్ధూలితవిగ్రహాయ మహామణి ముకుటధారణాయ మాణిక్యభూషణాయ సృష్టిస్థితిప్రలయకాల- రౌద్రావతారాయ దక్షాధ్వరధ్వంసకాయ మహాకాలభేదనాయ మూలధారైకనిలయాయ తత్వాతీతాయ గంగాధరాయ సర్వదేవాదిదేవాయ షడాశ్రయాయ వేదాంతసారాయ త్రివర్గసాధనాయ అనంతకోటిబ్రహ్మాండనాయకాయ అనంత వాసుకి తక్షక- కర్కోటక శంఖ కులిక- పద్మ మహాపద్మేతి- అష్టమహానాగకులభూషణాయ ప్రణవస్వరూపాయ చిదాకాశాయ ఆకాశ దిక్ స్వరూపాయ గ్రహనక్షత్రమాలినే సకలాయ కలంకరహితాయ సకలలోకైకకర్త్రే సకలలోకైకభర్త్రే సకలలోకైకసంహర్త్రే సకలలోకైకగురవే సకలలోకైకసాక్షిణే సకలనిగమగుహ్యాయ సకలవేదాంతపారగాయ సకలలోకైకవరప్రదాయ సకలలోకైకశంకరాయ సకలదురితార్తిభంజనాయ సకలజగదభయంకరాయ శశాంకశేఖరాయ శాశ్వతనిజావాసాయ నిరాకారాయ నిరాభాసాయ నిరామయాయ నిర్మలాయ నిర్మదాయ నిశ్చింతాయ నిరహంకారాయ నిరంకుశాయ నిష్కలంకాయ నిర్గుణాయ నిష్కామాయ నిరూపప్లవాయ నిరుపద్రవాయ నిరవద్యాయ నిరంతరాయ నిష్కారణాయ నిరాతంకాయ నిష్ప్రపంచాయ నిస్సంగాయ నిర్ద్వంద్వాయ నిరాధారాయ నీరాగాయ నిష్క్రోధాయ నిర్లోపాయ నిష్పాపాయ నిర్భయాయ నిర్వికల్పాయ నిర్భేదాయ నిష్క్రియాయ నిస్తులాయ నిఃసంశయాయ నిరంజనాయ నిరుపమవిభవాయ నిత్యశుద్ధబుద్ధముక్తపరిపూర్ణ- సచ్చిదానందాద్వయాయ పరమశాంతస్వరూపాయ పరమశాంతప్రకాశాయ తేజోరూపాయ తేజోమయాయ తేజో‌உధిపతయే జయ జయ రుద్ర మహారుద్ర మహారౌద్ర భద్రావతార మహాభైరవ కాలభైరవ కల్పాంతభైరవ కపాలమాలాధర ఖట్వాంగ చర్మఖడ్గధర పాశాంకుశ- డమరూశూల చాపబాణగదాశక్తిభిందిపాల- తోమర ముసల ముద్గర పాశ పరిఘ- భుశుండీ శతఘ్నీ చక్రాద్యాయుధభీషణాకార- సహస్రముఖదంష్ట్రాకరాలవదన వికటాట్టహాస విస్ఫారిత బ్రహ్మాండమండల నాగేంద్రకుండల నాగేంద్రహార నాగేంద్రవలయ నాగేంద్రచర్మధర నాగేంద్రనికేతన మృత్యుంజయ త్ర్యంబక త్రిపురాంతక విశ్వరూప విరూపాక్ష విశ్వేశ్వర వృషభవాహన విషవిభూషణ విశ్వతోముఖ సర్వతోముఖ మాం రక్ష రక్ష జ్వలజ్వల ప్రజ్వల ప్రజ్వల మహామృత్యుభయం శమయ శమయ అపమృత్యుభయం నాశయ నాశయ రోగభయమ్ ఉత్సాదయోత్సాదయ విషసర్పభయం శమయ శమయ చోరాన్ మారయ మారయ మమ శత్రూన్ ఉచ్చాటయోచ్చాటయ త్రిశూలేన విదారయ విదారయ కుఠారేణ భింధి భింధి ఖడ్గేన ఛింద్ది ఛింద్ది ఖట్వాంగేన విపోధయ విపోధయ ముసలేన నిష్పేషయ నిష్పేషయ బాణైః సంతాడయ సంతాడయ యక్ష రక్షాంసి భీషయ భీషయ అశేష భూతాన్ విద్రావయ విద్రావయ కూష్మాండభూతవేతాలమారీగణ- బ్రహ్మరాక్షసగణాన్ సంత్రాసయ సంత్రాసయ మమ అభయం కురు కురు మమ పాపం శోధయ శోధయ విత్రస్తం మామ్ ఆశ్వాసయ ఆశ్వాసయ నరకమహాభయాన్ మామ్ ఉద్ధర ఉద్ధర అమృతకటాక్షవీక్షణేన మాం- ఆలోకయ ఆలోకయ సంజీవయ సంజీవయ క్షుత్తృష్ణార్తం మామ్ ఆప్యాయయ ఆప్యాయయ దుఃఖాతురం మామ్ ఆనందయ ఆనందయ శివకవచేన మామ్ ఆచ్ఛాదయ ఆచ్ఛాదయ

హర హర మృత్యుంజయ త్ర్యంబక సదాశివ పరమశివ నమస్తే నమస్తే నమః ||

పూర్వవత్ – హృదయాది న్యాసః |

పంచపూజా ||

భూర్భువస్సువరోమితి దిగ్విమోకః ||

ఫలశ్రుతిః
ఋషభ ఉవాచ ఇత్యేతత్పరమం శైవం కవచం వ్యాహృతం మయా |
సర్వ బాధా ప్రశమనం రహస్యం సర్వ దేహినామ్ ||

యః సదా ధారయేన్మర్త్యః శైవం కవచముత్తమమ్ |
న తస్య జాయతే కాపి భయం శంభోరనుగ్రహాత్ ||

క్షీణాయుః ప్రాప్తమృత్యుర్వా మహారోగహతో‌உపి వా |
సద్యః సుఖమవాప్నోతి దీర్ఘమాయుశ్చ విందతి ||

సర్వదారిద్రయశమనం సౌమాంగల్యవివర్ధనమ్ |
యో ధత్తే కవచం శైవం స దేవైరపి పూజ్యతే ||

మహాపాతకసంఘాతైర్ముచ్యతే చోపపాతకైః |
దేహాంతే ముక్తిమాప్నోతి శివవర్మానుభావతః ||

త్వమపి శ్రద్దయా వత్స శైవం కవచముత్తమమ్ |
ధారయస్వ మయా దత్తం సద్యః శ్రేయో హ్యవాప్స్యసి ||

శ్రీసూత ఉవాచ

ఇత్యుక్త్వా ఋషభో యోగీ తస్మై పార్థివ సూనవే |
దదౌ శంఖం మహారావం ఖడ్గం చ అరినిషూదనమ్ ||

పునశ్చ భస్మ సంమంత్ర్య తదంగం పరితో‌உస్పృశత్ |
గజానాం షట్సహస్రస్య త్రిగుణస్య బలం దదౌ ||

భస్మప్రభావాత్ సంప్రాప్తబలైశ్వర్య ధృతి స్మృతిః |
స రాజపుత్రః శుశుభే శరదర్క ఇవ శ్రియా ||

తమాహ ప్రాంజలిం భూయః స యోగీ నృపనందనమ్ |
ఏష ఖడ్గో మయా దత్తస్తపోమంత్రానుభావతః ||

శితధారమిమం ఖడ్గం యస్మై దర్శయసే స్ఫుటమ్ |
స సద్యో మ్రియతే శత్రుః సాక్షాన్మృత్యురపి స్వయమ్ ||

అస్య శంఖస్య నిర్హ్రాదం యే శృణ్వంతి తవాహితాః |
తే మూర్చ్ఛితాః పతిష్యంతి న్యస్తశస్త్రా విచేతనాః ||

ఖడ్గశంఖావిమౌ దివ్యౌ పరసైన్యవినాశకౌ |
ఆత్మసైన్యస్వపక్షాణాం శౌర్యతేజోవివర్ధనౌ ||

ఏతయోశ్చ ప్రభావేన శైవేన కవచేన చ |
ద్విషట్సహస్ర నాగానాం బలేన మహతాపి చ ||

భస్మధారణ సామర్థ్యాచ్ఛత్రుసైన్యం విజేష్యసే |
ప్రాప్య సింహాసనం పిత్ర్యం గోప్తా‌உసి పృథివీమిమామ్ ||

ఇతి భద్రాయుషం సమ్యగనుశాస్య సమాతృకమ్ |
తాభ్యాం సంపూజితః సో‌உథ యోగీ స్వైరగతిర్యయౌ ||

ఇతి శ్రీస్కాందమహాపురాణే బ్రహ్మోత్తరఖండే శివకవచ ప్రభావ వర్ణనం నామ ద్వాదశో‌உధ్యాయః సంపూర్ణః || ||

.


அஸ்ய ஶ்ரீ ஶிவகவச ஸ்தோத்ர மஹாமன்த்ரஸ்ய றுஷபயோகீஶ்வர றுஷிஃ |
அனுஷ்டுப் சன்தஃ |
ஶ்ரீஸாம்பஸதாஶிவோ தேவதா |
ஓம் பீஜம் |
னமஃ ஶக்திஃ |
ஶிவாயேதி கீலகம் |
மம ஸாம்பஸதாஶிவப்ரீத்யர்தே ஜபே வினியோகஃ ||

கரன்யாஸஃ
ஓம் ஸதாஶிவாய அம்குஷ்டாப்யாம் னமஃ | னம் கம்காதராய தர்ஜனீப்யாம் னமஃ | மம் ம்றுத்யுஞ்ஜயாய மத்யமாப்யாம் னமஃ |

ஶிம் ஶூலபாணயே அனாமிகாப்யாம் னமஃ | வாம் பினாகபாணயே கனிஷ்டிகாப்யாம் னமஃ | யம் உமாபதயே கரதலகரப்றுஷ்டாப்யாம் னமஃ |

ஹ்றுதயாதி அம்கன்யாஸஃ
ஓம் ஸதாஶிவாய ஹ்றுதயாய னமஃ | னம் கம்காதராய ஶிரஸே ஸ்வாஹா | மம் ம்றுத்யுஞ்ஜயாய ஶிகாயை வஷட் |

ஶிம் ஶூலபாணயே கவசாய ஹும் | வாம் பினாகபாணயே னேத்ரத்ரயாய வௌஷட் | யம் உமாபதயே அஸ்த்ராய பட் | பூர்புவஸ்ஸுவரோமிதி திக்பன்தஃ ||

த்யானம்
வஜ்ரதம்ஷ்ட்ரம் த்ரினயனம் காலகண்ட மரிம்தமம் |
ஸஹஸ்ரகரமத்யுக்ரம் வன்தே ஶம்பும் உமாபதிம் ||
ருத்ராக்ஷகங்கணலஸத்கரதண்டயுக்மஃ பாலான்தராலஸிதபஸ்மத்றுதத்ரிபுண்ட்ரஃ |
பஞ்சாக்ஷரம் பரிபடன் வரமன்த்ரராஜம் த்யாயன் ஸதா பஶுபதிம் ஶரணம் வ்ரஜேதாஃ ||

அதஃ பரம் ஸர்வபுராணகுஹ்யம் னிஃஶேஷபாபௌகஹரம் பவித்ரம் |
ஜயப்ரதம் ஸர்வவிபத்ப்ரமோசனம் வக்ஷ்யாமி ஶைவம் கவசம் ஹிதாய தே ||

பஞ்சபூஜா
லம் ப்றுதிவ்யாத்மனே கன்தம் ஸமர்பயாமி |
ஹம் ஆகாஶாத்மனே புஷ்பைஃ பூஜயாமி |
யம் வாய்வாத்மனே தூபம் ஆக்ராபயாமி |
ரம் அக்ன்யாத்மனே தீபம் தர்ஶயாமி |
வம் அம்றுதாத்மனே அம்றுதம் மஹானைவேத்யம் னிவேதயாமி |
ஸம் ஸர்வாத்மனே ஸர்வோபசாரபூஜாம் ஸமர்பயாமி ||

மன்த்ரஃ

றுஷப உவாச

னமஸ்க்றுத்ய மஹாதேவம் விஶ்வவ்யாபினமீஶ்வரம் |
வக்ஷ்யே ஶிவமயம் வர்ம ஸர்வரக்ஷாகரம் ன்றுணாம் || 1 ||

ஶுசௌ தேஶே ஸமாஸீனோ யதாவத்கல்பிதாஸனஃ |
ஜிதேன்த்ரியோ ஜிதப்ராணஶ்சின்தயேச்சிவமவ்யயம் || 2 ||

ஹ்றுத்புண்டரீகான்தரஸன்னிவிஷ்டம் ஸ்வதேஜஸா வ்யாப்தனபோ‌உவகாஶம் |
அதீன்த்ரியம் ஸூக்ஷ்மமனன்தமாத்யம் த்யாயேத் பரானன்தமயம் மஹேஶம் ||

த்யானாவதூதாகிலகர்மபன்த- ஶ்சிரம் சிதானன்த னிமக்னசேதாஃ |
ஷடக்ஷரன்யாஸ ஸமாஹிதாத்மா ஶைவேன குர்யாத்கவசேன ரக்ஷாம் ||

மாம் பாது தேவோ‌உகிலதேவதாத்மா ஸம்ஸாரகூபே பதிதம் கபீரே |
தன்னாம திவ்யம் பரமன்த்ரமூலம் துனோது மே ஸர்வமகம் ஹ்றுதிஸ்தம் ||

ஸர்வத்ர மாம் ரக்ஷது விஶ்வமூர்தி- ர்ஜ்யோதிர்மயானன்தகனஶ்சிதாத்மா |
அணோரணியானுருஶக்திரேகஃ ஸ ஈஶ்வரஃ பாது பயாதஶேஷாத் ||

யோ பூஸ்வரூபேண பிபர்தி விஶ்வம் பாயாத்ஸ பூமேர்கிரிஶோ‌உஷ்டமூர்திஃ |
யோ‌உபாம் ஸ்வரூபேண ன்றுணாம் கரோதி ஸம்ஜீவனம் ஸோ‌உவது மாம் ஜலேப்யஃ ||

கல்பாவஸானே புவனானி தக்த்வா ஸர்வாணி யோ ன்றுத்யதி பூரிலீலஃ |
ஸ காலருத்ரோ‌உவது மாம் தவாக்னேஃ வாத்யாதிபீதேரகிலாச்ச தாபாத் ||

ப்ரதீப்தவித்யுத்கனகாவபாஸோ வித்யாவராபீதி குடாரபாணிஃ |
சதுர்முகஸ்தத்புருஷஸ்த்ரினேத்ரஃ ப்ராச்யாம் ஸ்திதோ ரக்ஷது மாமஜஸ்ரம் ||

குடாரகேடாங்குஶ ஶூலடக்கா- கபாலபாஶாக்ஷ குணான்ததானஃ |
சதுர்முகோ னீலருசிஸ்த்ரினேத்ரஃ பாயாதகோரோ திஶி தக்ஷிணஸ்யாம் ||

குன்தேன்துஶங்கஸ்படிகாவபாஸோ வேதாக்ஷமாலா வரதாபயாங்கஃ |
த்ர்யக்ஷஶ்சதுர்வக்த்ர உருப்ரபாவஃ ஸத்யோ‌உதிஜாதோ‌உவது மாம் ப்ரதீச்யாம் ||

வராக்ஷமாலாபயடங்கஹஸ்தஃ ஸரோஜகிஞ்ஜல்கஸமானவர்ணஃ |
த்ரிலோசனஶ்சாருசதுர்முகோ மாம் பாயாதுதீச்யாம் திஶி வாமதேவஃ ||

வேதாபயேஷ்டாங்குஶடங்கபாஶ- கபாலடக்காக்ஷரஶூலபாணிஃ |
ஸிதத்யுதிஃ பஞ்சமுகோ‌உவதான்மாம் ஈஶான ஊர்த்வம் பரமப்ரகாஶஃ ||

மூர்தானமவ்யான்மம சன்த்ரமௌலிஃ பாலம் மமாவ்யாதத பாலனேத்ரஃ |
னேத்ரே மமாவ்யாத்பகனேத்ரஹாரீ னாஸாம் ஸதா ரக்ஷது விஶ்வனாதஃ ||

பாயாச்ச்ருதீ மே ஶ்ருதிகீதகீர்திஃ கபோலமவ்யாத்ஸததம் கபாலீ |
வக்த்ரம் ஸதா ரக்ஷது பஞ்சவக்த்ரோ ஜிஹ்வாம் ஸதா ரக்ஷது வேதஜிஹ்வஃ ||

கண்டம் கிரீஶோ‌உவது னீலகண்டஃ பாணித்வயம் பாது பினாகபாணிஃ |
தோர்மூலமவ்யான்மம தர்மபாஹுஃ வக்ஷஃஸ்தலம் தக்ஷமகான்தகோ‌உவ்யாத் ||

மமோதரம் பாது கிரீன்த்ரதன்வா மத்யம் மமாவ்யான்மதனான்தகாரீ |
ஹேரம்பதாதோ மம பாது னாபிம் பாயாத்கடிம் தூர்ஜடிரீஶ்வரோ மே ||

ஊருத்வயம் பாது குபேரமித்ரோ ஜானுத்வயம் மே ஜகதீஶ்வரோ‌உவ்யாத் |
ஜங்காயுகம் புங்கவகேதுரவ்யாத் பாதௌ மமாவ்யாத்ஸுரவன்த்யபாதஃ ||

மஹேஶ்வரஃ பாது தினாதியாமே மாம் மத்யயாமே‌உவது வாமதேவஃ |
த்ரிலோசனஃ பாது த்றுதீயயாமே வ்றுஷத்வஜஃ பாது தினான்த்யயாமே ||

பாயான்னிஶாதௌ ஶஶிஶேகரோ மாம் கங்காதரோ ரக்ஷது மாம் னிஶீதே |
கௌரீபதிஃ பாது னிஶாவஸானே ம்றுத்யுஞ்ஜயோ ரக்ஷது ஸர்வகாலம் ||

அன்தஃஸ்திதம் ரக்ஷது ஶம்கரோ மாம் ஸ்தாணுஃ ஸதா பாது பஹிஃஸ்திதம் மாம் |
ததன்தரே பாது பதிஃ பஶூனாம் ஸதாஶிவோ ரக்ஷது மாம் ஸமன்தாத் ||

திஷ்டன்தமவ்யாத் புவனைகனாதஃ பாயாத்வ்ரஜன்தம் ப்ரமதாதினாதஃ |
வேதான்தவேத்யோ‌உவது மாம் னிஷண்ணம் மாமவ்யயஃ பாது ஶிவஃ ஶயானம் ||

மார்கேஷு மாம் ரக்ஷது னீலகண்டஃ ஶைலாதிதுர்கேஷு புரத்ரயாரிஃ |
அரண்யவாஸாதி மஹாப்ரவாஸே பாயான்ம்றுகவ்யாத உதாரஶக்திஃ ||

கல்பான்தகாலோக்ரபடுப்ரகோப- ஸ்புடாட்டஹாஸோச்சலிதாண்டகோஶஃ |
கோராரிஸேனார்ணவ துர்னிவார- மஹாபயாத்ரக்ஷது வீரபத்ரஃ ||

பத்த்யஶ்வமாதங்கரதாவரூதினீ- ஸஹஸ்ரலக்ஷாயுத கோடிபீஷணம் |
அக்ஷௌஹிணீனாம் ஶதமாததாயினாம் சின்த்யான்ம்றுடோ கோரகுடார தாரயா ||

னிஹன்து தஸ்யூன்ப்ரலயானலார்சிஃ ஜ்வலத்த்ரிஶூலம் த்ரிபுரான்தகஸ்ய | ஶார்தூலஸிம்ஹர்க்ஷவ்றுகாதிஹிம்ஸ்ரான் ஸம்த்ராஸயத்வீஶதனுஃ பினாகஃ ||

துஃ ஸ்வப்ன துஃ ஶகுன துர்கதி தௌர்மனஸ்ய- துர்பிக்ஷ துர்வ்யஸன துஃஸஹ துர்யஶாம்ஸி | உத்பாததாபவிஷபீதிமஸத்க்ரஹார்திம் வ்யாதீம்ஶ்ச னாஶயது மே ஜகதாமதீஶஃ ||

ஓம் னமோ பகவதே ஸதாஶிவாய

ஸகலதத்வாத்மகாய ஸர்வமன்த்ரஸ்வரூபாய ஸர்வயன்த்ராதிஷ்டிதாய ஸர்வதன்த்ரஸ்வரூபாய ஸர்வதத்வவிதூராய ப்ரஹ்மருத்ராவதாரிணே னீலகண்டாய பார்வதீமனோஹரப்ரியாய ஸோமஸூர்யாக்னிலோசனாய பஸ்மோத்தூலிதவிக்ரஹாய மஹாமணி முகுடதாரணாய மாணிக்யபூஷணாய ஸ்றுஷ்டிஸ்திதிப்ரலயகால- ரௌத்ராவதாராய தக்ஷாத்வரத்வம்ஸகாய மஹாகாலபேதனாய மூலதாரைகனிலயாய தத்வாதீதாய கம்காதராய ஸர்வதேவாதிதேவாய ஷடாஶ்ரயாய வேதான்தஸாராய த்ரிவர்கஸாதனாய அனன்தகோடிப்ரஹ்மாண்டனாயகாய அனன்த வாஸுகி தக்ஷக- கர்கோடக ஶங்க குலிக- பத்ம மஹாபத்மேதி- அஷ்டமஹானாககுலபூஷணாய ப்ரணவஸ்வரூபாய சிதாகாஶாய ஆகாஶ திக் ஸ்வரூபாய க்ரஹனக்ஷத்ரமாலினே ஸகலாய கலங்கரஹிதாய ஸகலலோகைககர்த்ரே ஸகலலோகைகபர்த்ரே ஸகலலோகைகஸம்ஹர்த்ரே ஸகலலோகைககுரவே ஸகலலோகைகஸாக்ஷிணே ஸகலனிகமகுஹ்யாய ஸகலவேதான்தபாரகாய ஸகலலோகைகவரப்ரதாய ஸகலலோகைகஶம்கராய ஸகலதுரிதார்திபஞ்ஜனாய ஸகலஜகதபயம்கராய ஶஶாங்கஶேகராய ஶாஶ்வதனிஜாவாஸாய னிராகாராய னிராபாஸாய னிராமயாய னிர்மலாய னிர்மதாய னிஶ்சின்தாய னிரஹம்காராய னிரம்குஶாய னிஷ்கலங்காய னிர்குணாய னிஷ்காமாய னிரூபப்லவாய னிருபத்ரவாய னிரவத்யாய னிரன்தராய னிஷ்காரணாய னிராதம்காய னிஷ்ப்ரபஞ்சாய னிஸ்ஸங்காய னிர்த்வன்த்வாய னிராதாராய னீராகாய னிஷ்க்ரோதாய னிர்லோபாய னிஷ்பாபாய னிர்பயாய னிர்விகல்பாய னிர்பேதாய னிஷ்க்ரியாய னிஸ்துலாய னிஃஸம்ஶயாய னிரம்ஜனாய னிருபமவிபவாய னித்யஶுத்தபுத்தமுக்தபரிபூர்ண- ஸச்சிதானன்தாத்வயாய பரமஶான்தஸ்வரூபாய பரமஶான்தப்ரகாஶாய தேஜோரூபாய தேஜோமயாய தேஜோ‌உதிபதயே ஜய ஜய ருத்ர மஹாருத்ர மஹாரௌத்ர பத்ராவதார மஹாபைரவ காலபைரவ கல்பான்தபைரவ கபாலமாலாதர கட்வாங்க சர்மகட்கதர பாஶாங்குஶ- டமரூஶூல சாபபாணகதாஶக்திபிம்திபால- தோமர முஸல முத்கர பாஶ பரிக- புஶுண்டீ ஶதக்னீ சக்ராத்யாயுதபீஷணாகார- ஸஹஸ்ரமுகதம்ஷ்ட்ராகராலவதன விகடாட்டஹாஸ விஸ்பாரித ப்ரஹ்மாண்டமண்டல னாகேன்த்ரகுண்டல னாகேன்த்ரஹார னாகேன்த்ரவலய னாகேன்த்ரசர்மதர னாகேன்த்ரனிகேதன ம்றுத்யுஞ்ஜய த்ர்யம்பக த்ரிபுரான்தக விஶ்வரூப விரூபாக்ஷ விஶ்வேஶ்வர வ்றுஷபவாஹன விஷவிபூஷண விஶ்வதோமுக ஸர்வதோமுக மாம் ரக்ஷ ரக்ஷ ஜ்வலஜ்வல ப்ரஜ்வல ப்ரஜ்வல மஹாம்றுத்யுபயம் ஶமய ஶமய அபம்றுத்யுபயம் னாஶய னாஶய ரோகபயம் உத்ஸாதயோத்ஸாதய விஷஸர்பபயம் ஶமய ஶமய சோரான் மாரய மாரய மம ஶத்ரூன் உச்சாடயோச்சாடய த்ரிஶூலேன விதாரய விதாரய குடாரேண பின்தி பின்தி கட்கேன சின்த்தி சின்த்தி கட்வாங்கேன விபோதய விபோதய முஸலேன னிஷ்பேஷய னிஷ்பேஷய பாணைஃ ஸம்தாடய ஸம்தாடய யக்ஷ ரக்ஷாம்ஸி பீஷய பீஷய அஶேஷ பூதான் வித்ராவய வித்ராவய கூஷ்மாண்டபூதவேதாலமாரீகண- ப்ரஹ்மராக்ஷஸகணான் ஸம்த்ராஸய ஸம்த்ராஸய மம அபயம் குரு குரு மம பாபம் ஶோதய ஶோதய வித்ரஸ்தம் மாம் ஆஶ்வாஸய ஆஶ்வாஸய னரகமஹாபயான் மாம் உத்தர உத்தர அம்றுதகடாக்ஷவீக்ஷணேன மாம்- ஆலோகய ஆலோகய ஸம்ஜீவய ஸம்ஜீவய க்ஷுத்த்றுஷ்ணார்தம் மாம் ஆப்யாயய ஆப்யாயய துஃகாதுரம் மாம் ஆனன்தய ஆனன்தய ஶிவகவசேன மாம் ஆச்சாதய ஆச்சாதய

ஹர ஹர ம்றுத்யும்ஜய த்ர்யம்பக ஸதாஶிவ பரமஶிவ னமஸ்தே னமஸ்தே னமஃ ||

பூர்வவத் – ஹ்றுதயாதி ன்யாஸஃ |

பஞ்சபூஜா ||

பூர்புவஸ்ஸுவரோமிதி திக்விமோகஃ ||

பலஶ்ருதிஃ
றுஷப உவாச இத்யேதத்பரமம் ஶைவம் கவசம் வ்யாஹ்றுதம் மயா |
ஸர்வ பாதா ப்ரஶமனம் ரஹஸ்யம் ஸர்வ தேஹினாம் ||

யஃ ஸதா தாரயேன்மர்த்யஃ ஶைவம் கவசமுத்தமம் |
ன தஸ்ய ஜாயதே காபி பயம் ஶம்போரனுக்ரஹாத் ||

க்ஷீணாயுஃ ப்ராப்தம்றுத்யுர்வா மஹாரோகஹதோ‌உபி வா |
ஸத்யஃ ஸுகமவாப்னோதி தீர்கமாயுஶ்ச வின்ததி ||

ஸர்வதாரித்ரயஶமனம் ஸௌமாங்கல்யவிவர்தனம் |
யோ தத்தே கவசம் ஶைவம் ஸ தேவைரபி பூஜ்யதே ||

மஹாபாதகஸங்காதைர்முச்யதே சோபபாதகைஃ |
தேஹான்தே முக்திமாப்னோதி ஶிவவர்மானுபாவதஃ ||

த்வமபி ஶ்ரத்தயா வத்ஸ ஶைவம் கவசமுத்தமம் |
தாரயஸ்வ மயா தத்தம் ஸத்யஃ ஶ்ரேயோ ஹ்யவாப்ஸ்யஸி ||

ஶ்ரீஸூத உவாச

இத்யுக்த்வா றுஷபோ யோகீ தஸ்மை பார்திவ ஸூனவே |
ததௌ ஶங்கம் மஹாராவம் கட்கம் ச அரினிஷூதனம் ||

புனஶ்ச பஸ்ம ஸம்மம்த்ர்ய ததங்கம் பரிதோ‌உஸ்ப்றுஶத் |
கஜானாம் ஷட்ஸஹஸ்ரஸ்ய த்ரிகுணஸ்ய பலம் ததௌ ||

பஸ்மப்ரபாவாத் ஸம்ப்ராப்தபலைஶ்வர்ய த்றுதி ஸ்ம்றுதிஃ |
ஸ ராஜபுத்ரஃ ஶுஶுபே ஶரதர்க இவ ஶ்ரியா ||

தமாஹ ப்ராஞ்ஜலிம் பூயஃ ஸ யோகீ ன்றுபனன்தனம் |
ஏஷ கட்கோ மயா தத்தஸ்தபோமன்த்ரானுபாவதஃ ||

ஶிததாரமிமம் கட்கம் யஸ்மை தர்ஶயஸே ஸ்புடம் |
ஸ ஸத்யோ ம்ரியதே ஶத்ருஃ ஸாக்ஷான்ம்றுத்யுரபி ஸ்வயம் ||

அஸ்ய ஶங்கஸ்ய னிர்ஹ்ராதம் யே ஶ்றுண்வன்தி தவாஹிதாஃ |
தே மூர்ச்சிதாஃ பதிஷ்யன்தி ன்யஸ்தஶஸ்த்ரா விசேதனாஃ ||

கட்கஶங்காவிமௌ திவ்யௌ பரஸைன்யவினாஶகௌ |
ஆத்மஸைன்யஸ்வபக்ஷாணாம் ஶௌர்யதேஜோவிவர்தனௌ ||

ஏதயோஶ்ச ப்ரபாவேன ஶைவேன கவசேன ச |
த்விஷட்ஸஹஸ்ர னாகானாம் பலேன மஹதாபி ச ||

பஸ்மதாரண ஸாமர்த்யாச்சத்ருஸைன்யம் விஜேஷ்யஸே |
ப்ராப்ய ஸிம்ஹாஸனம் பித்ர்யம் கோப்தா‌உஸி ப்றுதிவீமிமாம் ||

இதி பத்ராயுஷம் ஸம்யகனுஶாஸ்ய ஸமாத்றுகம் |
தாப்யாம் ஸம்பூஜிதஃ ஸோ‌உத யோகீ ஸ்வைரகதிர்யயௌ ||

இதி ஶ்ரீஸ்கான்தமஹாபுராணே ப்ரஹ்மோத்தரகண்டே ஶிவகவச ப்ரபாவ வர்ணனம் னாம த்வாதஶோ‌உத்யாயஃ ஸம்பூர்ணஃ || ||

.


ଅସ୍ୟ ଶ୍ରୀ ଶିଵକଵଚ ସ୍ତୋତ୍ର ମହାମନ୍ତ୍ରସ୍ୟ ଋଷଭୟୋଗୀଶ୍ଵର ଋଷିଃ |
ଅନୁଷ୍ଟୁପ ଛନ୍ଦଃ |
ଶ୍ରୀସାମ୍ବସଦାଶିଵୋ ଦେଵତା |
ଓଂ ବୀଜମ |
ନମଃ ଶକ୍ତିଃ |
ଶିଵାୟେତି କୀଲକମ |
ମମ ସାମ୍ବସଦାଶିଵପ୍ରୀତ୍ୟର୍ଥେ ଜପେ ଵିନିୟୋଗଃ ||

କରନ୍ୟାସଃ
ଓଂ ସଦାଶିଵାୟ ଅଂଗୁଷ୍ଠାଭ୍ୟାଂ ନମଃ | ନଂ ଗଂଗାଧରାୟ ତର୍ଜନୀଭ୍ୟାଂ ନମଃ | ମଂ ମୃତ୍ୟୁଞ୍ଜୟାୟ ମଧ୍ୟମାଭ୍ୟାଂ ନମଃ |

ଶିଂ ଶୂଲପାଣୟେ ଅନାମିକାଭ୍ୟାଂ ନମଃ | ଵାଂ ପିନାକପାଣୟେ କନିଷ୍ଠିକାଭ୍ୟାଂ ନମଃ | ୟମ ଉମାପତୟେ କରତଲକରପୃଷ୍ଠାଭ୍ୟାଂ ନମଃ |

ହୃଦୟାଦି ଅଂଗନ୍ୟାସଃ
ଓଂ ସଦାଶିଵାୟ ହୃଦୟାୟ ନମଃ | ନଂ ଗଂଗାଧରାୟ ଶିରସେ ସ୍ଵାହା | ମଂ ମୃତ୍ୟୁଞ୍ଜୟାୟ ଶିଖାୟୈ ଵଷଟ |

ଶିଂ ଶୂଲପାଣୟେ କଵଚାୟ ହୁମ | ଵାଂ ପିନାକପାଣୟେ ନେତ୍ରତ୍ରୟାୟ ଵୌଷଟ | ୟମ ଉମାପତୟେ ଅସ୍ତ୍ରାୟ ଫଟ | ଭୂର୍ଭୁଵସ୍ସୁଵରୋମିତି ଦିଗ୍ବନ୍ଧଃ ||

ଧ୍ୟାନମ
ଵଜ୍ରଦଂଷ୍ଟ୍ରଂ ତ୍ରିନୟନଂ କାଲକଣ୍ଠ ମରିଂଦମମ |
ସହସ୍ରକରମତ୍ୟୁଗ୍ରଂ ଵନ୍ଦେ ଶଂଭୁମ ଉମାପତିମ ||
ରୁଦ୍ରାକ୍ଷକଙ୍କଣଲସତ୍କରଦଣ୍ଡୟୁଗ୍ମଃ ପାଲାନ୍ତରାଲସିତଭସ୍ମଧୃତତ୍ରିପୁଣ୍ଡ୍ରଃ |
ପଞ୍ଚାକ୍ଷରଂ ପରିପଠନ ଵରମନ୍ତ୍ରରାଜଂ ଧ୍ୟାୟନ ସଦା ପଶୁପତିଂ ଶରଣଂ ଵ୍ରଜେଥାଃ ||

ଅତଃ ପରଂ ସର୍ଵପୁରାଣଗୁହ୍ୟଂ ନିଃଶେଷପାପୌଘହରଂ ପଵିତ୍ରମ |
ଜୟପ୍ରଦଂ ସର୍ଵଵିପତ୍ପ୍ରମୋଚନଂ ଵକ୍ଷ୍ୟାମି ଶୈଵମ କଵଚଂ ହିତାୟ ତେ ||

ପଞ୍ଚପୂଜା
ଲଂ ପୃଥିଵ୍ୟାତ୍ମନେ ଗନ୍ଧଂ ସମର୍ପୟାମି |
ହମ ଆକାଶାତ୍ମନେ ପୁଷ୍ପୈଃ ପୂଜୟାମି |
ୟଂ ଵାୟ୍ଵାତ୍ମନେ ଧୂପମ ଆଘ୍ରାପୟାମି |
ରମ ଅଗ୍ନ୍ୟାତ୍ମନେ ଦୀପଂ ଦର୍ଶୟାମି |
ଵମ ଅମୃତାତ୍ମନେ ଅମୃତଂ ମହାନୈଵେଦ୍ୟଂ ନିଵେଦୟାମି |
ସଂ ସର୍ଵାତ୍ମନେ ସର୍ଵୋପଚାରପୂଜାଂ ସମର୍ପୟାମି ||

ମନ୍ତ୍ରଃ

ଋଷଭ ଉଵାଚ

ନମସ୍କୃତ୍ୟ ମହାଦେଵଂ ଵିଶ୍ଵଵ୍ୟାପିନମୀଶ୍ଵରମ |
ଵକ୍ଷ୍ୟେ ଶିଵମୟଂ ଵର୍ମ ସର୍ଵରକ୍ଷାକରଂ ନୃଣାମ || 1 ||

ଶୁଚୌ ଦେଶେ ସମାସୀନୋ ୟଥାଵତ୍କଲ୍ପିତାସନଃ |
ଜିତେନ୍ଦ୍ରିୟୋ ଜିତପ୍ରାଣଶ୍ଚିନ୍ତୟେଚ୍ଛିଵମଵ୍ୟୟମ || 2 ||

ହୃତ୍ପୁଣ୍ଡରୀକାନ୍ତରସନ୍ନିଵିଷ୍ଟଂ ସ୍ଵତେଜସା ଵ୍ୟାପ୍ତନଭୋ‌உଵକାଶମ |
ଅତୀନ୍ଦ୍ରିୟଂ ସୂକ୍ଷ୍ମମନନ୍ତମାଦ୍ୟଂ ଧ୍ୟାୟେତ ପରାନନ୍ଦମୟଂ ମହେଶମ ||

ଧ୍ୟାନାଵଧୂତାଖିଲକର୍ମବନ୍ଧ- ଶ୍ଚିରଂ ଚିଦାନନ୍ଦ ନିମଗ୍ନଚେତାଃ |
ଷଡକ୍ଷରନ୍ୟାସ ସମାହିତାତ୍ମା ଶୈଵେନ କୁର୍ୟାତ୍କଵଚେନ ରକ୍ଷାମ ||

ମାଂ ପାତୁ ଦେଵୋ‌உଖିଲଦେଵତାତ୍ମା ସଂସାରକୂପେ ପତିତଂ ଗଭୀରେ |
ତନ୍ନାମ ଦିଵ୍ୟଂ ପରମନ୍ତ୍ରମୂଲଂ ଧୁନୋତୁ ମେ ସର୍ଵମଘଂ ହୃଦିସ୍ଥମ ||

ସର୍ଵତ୍ର ମାଂ ରକ୍ଷତୁ ଵିଶ୍ଵମୂର୍ତି- ର୍ଜ୍ୟୋତିର୍ମୟାନନ୍ଦଘନଶ୍ଚିଦାତ୍ମା |
ଅଣୋରଣିୟାନୁରୁଶକ୍ତିରେକଃ ସ ଈଶ୍ଵରଃ ପାତୁ ଭୟାଦଶେଷାତ ||

ୟୋ ଭୂସ୍ଵରୂପେଣ ବିଭର୍ତି ଵିଶ୍ଵଂ ପାୟାତ୍ସ ଭୂମେର୍ଗିରିଶୋ‌உଷ୍ଟମୂର୍ତିଃ |
ୟୋ‌உପାଂ ସ୍ଵରୂପେଣ ନୃଣାଂ କରୋତି ସଂଜୀଵନଂ ସୋ‌உଵତୁ ମାଂ ଜଲେଭ୍ୟଃ ||

କଲ୍ପାଵସାନେ ଭୁଵନାନି ଦଗ୍ଧ୍ଵା ସର୍ଵାଣି ୟୋ ନୃତ୍ୟତି ଭୂରିଲୀଲଃ |
ସ କାଲରୁଦ୍ରୋ‌உଵତୁ ମାଂ ଦଵାଗ୍ନେଃ ଵାତ୍ୟାଦିଭୀତେରଖିଲାଚ୍ଚ ତାପାତ ||

ପ୍ରଦୀପ୍ତଵିଦ୍ୟୁତ୍କନକାଵଭାସୋ ଵିଦ୍ୟାଵରାଭୀତି କୁଠାରପାଣିଃ |
ଚତୁର୍ମୁଖସ୍ତତ୍ପୁରୁଷସ୍ତ୍ରିନେତ୍ରଃ ପ୍ରାଚ୍ୟାଂ ସ୍ଥିତୋ ରକ୍ଷତୁ ମାମଜସ୍ରମ ||

କୁଠାରଖେଟାଙ୍କୁଶ ଶୂଲଢକ୍କା- କପାଲପାଶାକ୍ଷ ଗୁଣାନ୍ଦଧାନଃ |
ଚତୁର୍ମୁଖୋ ନୀଲରୁଚିସ୍ତ୍ରିନେତ୍ରଃ ପାୟାଦଘୋରୋ ଦିଶି ଦକ୍ଷିଣସ୍ୟାମ ||

କୁନ୍ଦେନ୍ଦୁଶଙ୍ଖସ୍ଫଟିକାଵଭାସୋ ଵେଦାକ୍ଷମାଲା ଵରଦାଭୟାଙ୍କଃ |
ତ୍ର୍ୟକ୍ଷଶ୍ଚତୁର୍ଵକ୍ତ୍ର ଉରୁପ୍ରଭାଵଃ ସଦ୍ୟୋ‌உଧିଜାତୋ‌உଵତୁ ମାଂ ପ୍ରତୀଚ୍ୟାମ ||

ଵରାକ୍ଷମାଲାଭୟଟଙ୍କହସ୍ତଃ ସରୋଜକିଞ୍ଜଲ୍କସମାନଵର୍ଣଃ |
ତ୍ରିଲୋଚନଶ୍ଚାରୁଚତୁର୍ମୁଖୋ ମାଂ ପାୟାଦୁଦୀଚ୍ୟାଂ ଦିଶି ଵାମଦେଵଃ ||

ଵେଦାଭୟେଷ୍ଟାଙ୍କୁଶଟଙ୍କପାଶ- କପାଲଢକ୍କାକ୍ଷରଶୂଲପାଣିଃ |
ସିତଦ୍ୟୁତିଃ ପଞ୍ଚମୁଖୋ‌உଵତାନ୍ମାମ ଈଶାନ ଊର୍ଧ୍ଵଂ ପରମପ୍ରକାଶଃ ||

ମୂର୍ଧାନମଵ୍ୟାନ୍ମମ ଚନ୍ଦ୍ରମୌଲିଃ ଭାଲଂ ମମାଵ୍ୟାଦଥ ଭାଲନେତ୍ରଃ |
ନେତ୍ରେ ମମାଵ୍ୟାଦ୍ଭଗନେତ୍ରହାରୀ ନାସାଂ ସଦା ରକ୍ଷତୁ ଵିଶ୍ଵନାଥଃ ||

ପାୟାଚ୍ଛ୍ରୁତୀ ମେ ଶ୍ରୁତିଗୀତକୀର୍ତିଃ କପୋଲମଵ୍ୟାତ୍ସତତଂ କପାଲୀ |
ଵକ୍ତ୍ରଂ ସଦା ରକ୍ଷତୁ ପଞ୍ଚଵକ୍ତ୍ରୋ ଜିହ୍ଵାଂ ସଦା ରକ୍ଷତୁ ଵେଦଜିହ୍ଵଃ ||

କଣ୍ଠଂ ଗିରୀଶୋ‌உଵତୁ ନୀଲକଣ୍ଠଃ ପାଣିଦ୍ଵୟଂ ପାତୁ ପିନାକପାଣିଃ |
ଦୋର୍ମୂଲମଵ୍ୟାନ୍ମମ ଧର୍ମବାହୁଃ ଵକ୍ଷଃସ୍ଥଲଂ ଦକ୍ଷମଖାନ୍ତକୋ‌உଵ୍ୟାତ ||

ମମୋଦରଂ ପାତୁ ଗିରୀନ୍ଦ୍ରଧନ୍ଵା ମଧ୍ୟଂ ମମାଵ୍ୟାନ୍ମଦନାନ୍ତକାରୀ |
ହେରମ୍ବତାତୋ ମମ ପାତୁ ନାଭିଂ ପାୟାତ୍କଟିଂ ଧୂର୍ଜଟିରୀଶ୍ଵରୋ ମେ ||

ଊରୁଦ୍ଵୟଂ ପାତୁ କୁବେରମିତ୍ରୋ ଜାନୁଦ୍ଵୟଂ ମେ ଜଗଦୀଶ୍ଵରୋ‌உଵ୍ୟାତ |
ଜଙ୍ଘାୟୁଗଂ ପୁଙ୍ଗଵକେତୁରଵ୍ୟାତ ପାଦୌ ମମାଵ୍ୟାତ୍ସୁରଵନ୍ଦ୍ୟପାଦଃ ||

ମହେଶ୍ଵରଃ ପାତୁ ଦିନାଦିୟାମେ ମାଂ ମଧ୍ୟୟାମେ‌உଵତୁ ଵାମଦେଵଃ |
ତ୍ରିଲୋଚନଃ ପାତୁ ତୃତୀୟୟାମେ ଵୃଷଧ୍ଵଜଃ ପାତୁ ଦିନାନ୍ତ୍ୟୟାମେ ||

ପାୟାନ୍ନିଶାଦୌ ଶଶିଶେଖରୋ ମାଂ ଗଙ୍ଗାଧରୋ ରକ୍ଷତୁ ମାଂ ନିଶୀଥେ |
ଗୌରୀପତିଃ ପାତୁ ନିଶାଵସାନେ ମୃତ୍ୟୁଞ୍ଜୟୋ ରକ୍ଷତୁ ସର୍ଵକାଲମ ||

ଅନ୍ତଃସ୍ଥିତଂ ରକ୍ଷତୁ ଶଂକରୋ ମାଂ ସ୍ଥାଣୁଃ ସଦା ପାତୁ ବହିଃସ୍ଥିତଂ ମାମ |
ତଦନ୍ତରେ ପାତୁ ପତିଃ ପଶୂନାଂ ସଦାଶିଵୋ ରକ୍ଷତୁ ମାଂ ସମନ୍ତାତ ||

ତିଷ୍ଠନ୍ତମଵ୍ୟାଦ ଭୁଵନୈକନାଥଃ ପାୟାଦ୍ଵ୍ରଜନ୍ତଂ ପ୍ରମଥାଧିନାଥଃ |
ଵେଦାନ୍ତଵେଦ୍ୟୋ‌உଵତୁ ମାଂ ନିଷଣ୍ଣଂ ମାମଵ୍ୟୟଃ ପାତୁ ଶିଵଃ ଶୟାନମ ||

ମାର୍ଗେଷୁ ମାଂ ରକ୍ଷତୁ ନୀଲକଣ୍ଠଃ ଶୈଲାଦିଦୁର୍ଗେଷୁ ପୁରତ୍ରୟାରିଃ |
ଅରଣ୍ୟଵାସାଦି ମହାପ୍ରଵାସେ ପାୟାନ୍ମୃଗଵ୍ୟାଧ ଉଦାରଶକ୍ତିଃ ||

କଲ୍ପାନ୍ତକାଲୋଗ୍ରପଟୁପ୍ରକୋପ- ସ୍ଫୁଟାଟ୍ଟହାସୋଚ୍ଚଲିତାଣ୍ଡକୋଶଃ |
ଘୋରାରିସେନାର୍ଣଵ ଦୁର୍ନିଵାର- ମହାଭୟାଦ୍ରକ୍ଷତୁ ଵୀରଭଦ୍ରଃ ||

ପତ୍ତ୍ୟଶ୍ଵମାତଙ୍ଗରଥାଵରୂଥିନୀ- ସହସ୍ରଲକ୍ଷାୟୁତ କୋଟିଭୀଷଣମ |
ଅକ୍ଷୌହିଣୀନାଂ ଶତମାତତାୟିନାଂ ଛିନ୍ଦ୍ୟାନ୍ମୃଡୋ ଘୋରକୁଠାର ଧାରୟା ||

ନିହନ୍ତୁ ଦସ୍ୟୂନ୍ପ୍ରଲୟାନଲାର୍ଚିଃ ଜ୍ଵଲତ୍ତ୍ରିଶୂଲଂ ତ୍ରିପୁରାନ୍ତକସ୍ୟ | ଶାର୍ଦୂଲସିଂହର୍କ୍ଷଵୃକାଦିହିଂସ୍ରାନ ସଂତ୍ରାସୟତ୍ଵୀଶଧନୁଃ ପିନାକଃ ||

ଦୁଃ ସ୍ଵପ୍ନ ଦୁଃ ଶକୁନ ଦୁର୍ଗତି ଦୌର୍ମନସ୍ୟ- ଦୁର୍ଭିକ୍ଷ ଦୁର୍ଵ୍ୟସନ ଦୁଃସହ ଦୁର୍ୟଶାଂସି | ଉତ୍ପାତତାପଵିଷଭୀତିମସଦ୍ଗ୍ରହାର୍ତିଂ ଵ୍ୟାଧୀଂଶ୍ଚ ନାଶୟତୁ ମେ ଜଗତାମଧୀଶଃ ||

ଓଂ ନମୋ ଭଗଵତେ ସଦାଶିଵାୟ

ସକଲତତ୍ଵାତ୍ମକାୟ ସର୍ଵମନ୍ତ୍ରସ୍ଵରୂପାୟ ସର୍ଵୟନ୍ତ୍ରାଧିଷ୍ଠିତାୟ ସର୍ଵତନ୍ତ୍ରସ୍ଵରୂପାୟ ସର୍ଵତତ୍ଵଵିଦୂରାୟ ବ୍ରହ୍ମରୁଦ୍ରାଵତାରିଣେ ନୀଲକଣ୍ଠାୟ ପାର୍ଵତୀମନୋହରପ୍ରିୟାୟ ସୋମସୂର୍ୟାଗ୍ନିଲୋଚନାୟ ଭସ୍ମୋଦ୍ଧୂଲିତଵିଗ୍ରହାୟ ମହାମଣି ମୁକୁଟଧାରଣାୟ ମାଣିକ୍ୟଭୂଷଣାୟ ସୃଷ୍ଟିସ୍ଥିତିପ୍ରଲୟକାଲ- ରୌଦ୍ରାଵତାରାୟ ଦକ୍ଷାଧ୍ଵରଧ୍ଵଂସକାୟ ମହାକାଲଭେଦନାୟ ମୂଲଧାରୈକନିଲୟାୟ ତତ୍ଵାତୀତାୟ ଗଂଗାଧରାୟ ସର୍ଵଦେଵାଦିଦେଵାୟ ଷଡାଶ୍ରୟାୟ ଵେଦାନ୍ତସାରାୟ ତ୍ରିଵର୍ଗସାଧନାୟ ଅନନ୍ତକୋଟିବ୍ରହ୍ମାଣ୍ଡନାୟକାୟ ଅନନ୍ତ ଵାସୁକି ତକ୍ଷକ- କର୍କୋଟକ ଶଙ୍ଖ କୁଲିକ- ପଦ୍ମ ମହାପଦ୍ମେତି- ଅଷ୍ଟମହାନାଗକୁଲଭୂଷଣାୟ ପ୍ରଣଵସ୍ଵରୂପାୟ ଚିଦାକାଶାୟ ଆକାଶ ଦିକ ସ୍ଵରୂପାୟ ଗ୍ରହନକ୍ଷତ୍ରମାଲିନେ ସକଲାୟ କଲଙ୍କରହିତାୟ ସକଲଲୋକୈକକର୍ତ୍ରେ ସକଲଲୋକୈକଭର୍ତ୍ରେ ସକଲଲୋକୈକସଂହର୍ତ୍ରେ ସକଲଲୋକୈକଗୁରଵେ ସକଲଲୋକୈକସାକ୍ଷିଣେ ସକଲନିଗମଗୁହ୍ୟାୟ ସକଲଵେଦାନ୍ତପାରଗାୟ ସକଲଲୋକୈକଵରପ୍ରଦାୟ ସକଲଲୋକୈକଶଂକରାୟ ସକଲଦୁରିତାର୍ତିଭଞ୍ଜନାୟ ସକଲଜଗଦଭୟଂକରାୟ ଶଶାଙ୍କଶେଖରାୟ ଶାଶ୍ଵତନିଜାଵାସାୟ ନିରାକାରାୟ ନିରାଭାସାୟ ନିରାମୟାୟ ନିର୍ମଲାୟ ନିର୍ମଦାୟ ନିଶ୍ଚିନ୍ତାୟ ନିରହଂକାରାୟ ନିରଂକୁଶାୟ ନିଷ୍କଲଙ୍କାୟ ନିର୍ଗୁଣାୟ ନିଷ୍କାମାୟ ନିରୂପପ୍ଲଵାୟ ନିରୁପଦ୍ରଵାୟ ନିରଵଦ୍ୟାୟ ନିରନ୍ତରାୟ ନିଷ୍କାରଣାୟ ନିରାତଂକାୟ ନିଷ୍ପ୍ରପଞ୍ଚାୟ ନିସ୍ସଙ୍ଗାୟ ନିର୍ଦ୍ଵନ୍ଦ୍ଵାୟ ନିରାଧାରାୟ ନୀରାଗାୟ ନିଷ୍କ୍ରୋଧାୟ ନିର୍ଲୋପାୟ ନିଷ୍ପାପାୟ ନିର୍ଭୟାୟ ନିର୍ଵିକଲ୍ପାୟ ନିର୍ଭେଦାୟ ନିଷ୍କ୍ରିୟାୟ ନିସ୍ତୁଲାୟ ନିଃସଂଶୟାୟ ନିରଂଜନାୟ ନିରୁପମଵିଭଵାୟ ନିତ୍ୟଶୁଦ୍ଧବୁଦ୍ଧମୁକ୍ତପରିପୂର୍ଣ- ସଚ୍ଚିଦାନନ୍ଦାଦ୍ଵୟାୟ ପରମଶାନ୍ତସ୍ଵରୂପାୟ ପରମଶାନ୍ତପ୍ରକାଶାୟ ତେଜୋରୂପାୟ ତେଜୋମୟାୟ ତେଜୋ‌உଧିପତୟେ ଜୟ ଜୟ ରୁଦ୍ର ମହାରୁଦ୍ର ମହାରୌଦ୍ର ଭଦ୍ରାଵତାର ମହାଭୈରଵ କାଲଭୈରଵ କଲ୍ପାନ୍ତଭୈରଵ କପାଲମାଲାଧର ଖଟ୍ଵାଙ୍ଗ ଚର୍ମଖଡ୍ଗଧର ପାଶାଙ୍କୁଶ- ଡମରୂଶୂଲ ଚାପବାଣଗଦାଶକ୍ତିଭିଂଦିପାଲ- ତୋମର ମୁସଲ ମୁଦ୍ଗର ପାଶ ପରିଘ- ଭୁଶୁଣ୍ଡୀ ଶତଘ୍ନୀ ଚକ୍ରାଦ୍ୟାୟୁଧଭୀଷଣାକାର- ସହସ୍ରମୁଖଦଂଷ୍ଟ୍ରାକରାଲଵଦନ ଵିକଟାଟ୍ଟହାସ ଵିସ୍ଫାରିତ ବ୍ରହ୍ମାଣ୍ଡମଣ୍ଡଲ ନାଗେନ୍ଦ୍ରକୁଣ୍ଡଲ ନାଗେନ୍ଦ୍ରହାର ନାଗେନ୍ଦ୍ରଵଲୟ ନାଗେନ୍ଦ୍ରଚର୍ମଧର ନାଗେନ୍ଦ୍ରନିକେତନ ମୃତ୍ୟୁଞ୍ଜୟ ତ୍ର୍ୟମ୍ବକ ତ୍ରିପୁରାନ୍ତକ ଵିଶ୍ଵରୂପ ଵିରୂପାକ୍ଷ ଵିଶ୍ଵେଶ୍ଵର ଵୃଷଭଵାହନ ଵିଷଵିଭୂଷଣ ଵିଶ୍ଵତୋମୁଖ ସର୍ଵତୋମୁଖ ମାଂ ରକ୍ଷ ରକ୍ଷ ଜ୍ଵଲଜ୍ଵଲ ପ୍ରଜ୍ଵଲ ପ୍ରଜ୍ଵଲ ମହାମୃତ୍ୟୁଭୟଂ ଶମୟ ଶମୟ ଅପମୃତ୍ୟୁଭୟଂ ନାଶୟ ନାଶୟ ରୋଗଭୟମ ଉତ୍ସାଦୟୋତ୍ସାଦୟ ଵିଷସର୍ପଭୟଂ ଶମୟ ଶମୟ ଚୋରାନ ମାରୟ ମାରୟ ମମ ଶତ୍ରୂନ ଉଚ୍ଚାଟୟୋଚ୍ଚାଟୟ ତ୍ରିଶୂଲେନ ଵିଦାରୟ ଵିଦାରୟ କୁଠାରେଣ ଭିନ୍ଧି ଭିନ୍ଧି ଖଡ୍ଗେନ ଛିନ୍ଦ୍ଦି ଛିନ୍ଦ୍ଦି ଖଟ୍ଵାଙ୍ଗେନ ଵିପୋଧୟ ଵିପୋଧୟ ମୁସଲେନ ନିଷ୍ପେଷୟ ନିଷ୍ପେଷୟ ବାଣୈଃ ସଂତାଡୟ ସଂତାଡୟ ୟକ୍ଷ ରକ୍ଷାଂସି ଭୀଷୟ ଭୀଷୟ ଅଶେଷ ଭୂତାନ ଵିଦ୍ରାଵୟ ଵିଦ୍ରାଵୟ କୂଷ୍ମାଣ୍ଡଭୂତଵେତାଲମାରୀଗଣ- ବ୍ରହ୍ମରାକ୍ଷସଗଣାନ ସଂତ୍ରାସୟ ସଂତ୍ରାସୟ ମମ ଅଭୟଂ କୁରୁ କୁରୁ ମମ ପାପଂ ଶୋଧୟ ଶୋଧୟ ଵିତ୍ରସ୍ତଂ ମାମ ଆଶ୍ଵାସୟ ଆଶ୍ଵାସୟ ନରକମହାଭୟାନ ମାମ ଉଦ୍ଧର ଉଦ୍ଧର ଅମୃତକଟାକ୍ଷଵୀକ୍ଷଣେନ ମାଂ- ଆଲୋକୟ ଆଲୋକୟ ସଂଜୀଵୟ ସଂଜୀଵୟ କ୍ଷୁତ୍ତୃଷ୍ଣାର୍ତଂ ମାମ ଆପ୍ୟାୟୟ ଆପ୍ୟାୟୟ ଦୁଃଖାତୁରଂ ମାମ ଆନନ୍ଦୟ ଆନନ୍ଦୟ ଶିଵକଵଚେନ ମାମ ଆଚ୍ଛାଦୟ ଆଚ୍ଛାଦୟ

ହର ହର ମୃତ୍ୟୁଂଜୟ ତ୍ର୍ୟମ୍ବକ ସଦାଶିଵ ପରମଶିଵ ନମସ୍ତେ ନମସ୍ତେ ନମଃ ||

ପୂର୍ଵଵତ – ହୃଦୟାଦି ନ୍ୟାସଃ |

ପଞ୍ଚପୂଜା ||

ଭୂର୍ଭୁଵସ୍ସୁଵରୋମିତି ଦିଗ୍ଵିମୋକଃ ||

ଫଲଶ୍ରୁତିଃ
ଋଷଭ ଉଵାଚ ଇତ୍ୟେତତ୍ପରମଂ ଶୈଵଂ କଵଚଂ ଵ୍ୟାହୃତଂ ମୟା |
ସର୍ଵ ବାଧା ପ୍ରଶମନଂ ରହସ୍ୟଂ ସର୍ଵ ଦେହିନାମ ||

ୟଃ ସଦା ଧାରୟେନ୍ମର୍ତ୍ୟଃ ଶୈଵଂ କଵଚମୁତ୍ତମମ |
ନ ତସ୍ୟ ଜାୟତେ କାପି ଭୟଂ ଶଂଭୋରନୁଗ୍ରହାତ ||

କ୍ଷୀଣାୟୁଃ ପ୍ରାପ୍ତମୃତ୍ୟୁର୍ଵା ମହାରୋଗହତୋ‌உପି ଵା |
ସଦ୍ୟଃ ସୁଖମଵାପ୍ନୋତି ଦୀର୍ଘମାୟୁଶ୍ଚ ଵିନ୍ଦତି ||

ସର୍ଵଦାରିଦ୍ରୟଶମନଂ ସୌମାଙ୍ଗଲ୍ୟଵିଵର୍ଧନମ |
ୟୋ ଧତ୍ତେ କଵଚଂ ଶୈଵଂ ସ ଦେଵୈରପି ପୂଜ୍ୟତେ ||

ମହାପାତକସଙ୍ଘାତୈର୍ମୁଚ୍ୟତେ ଚୋପପାତକୈଃ |
ଦେହାନ୍ତେ ମୁକ୍ତିମାପ୍ନୋତି ଶିଵଵର୍ମାନୁଭାଵତଃ ||

ତ୍ଵମପି ଶ୍ରଦ୍ଦୟା ଵତ୍ସ ଶୈଵଂ କଵଚମୁତ୍ତମମ |
ଧାରୟସ୍ଵ ମୟା ଦତ୍ତଂ ସଦ୍ୟଃ ଶ୍ରେୟୋ ହ୍ୟଵାପ୍ସ୍ୟସି ||

ଶ୍ରୀସୂତ ଉଵାଚ

ଇତ୍ୟୁକ୍ତ୍ଵା ଋଷଭୋ ୟୋଗୀ ତସ୍ମୈ ପାର୍ଥିଵ ସୂନଵେ |
ଦଦୌ ଶଙ୍ଖଂ ମହାରାଵଂ ଖଡ୍ଗଂ ଚ ଅରିନିଷୂଦନମ ||

ପୁନଶ୍ଚ ଭସ୍ମ ସଂମଂତ୍ର୍ୟ ତଦଙ୍ଗଂ ପରିତୋ‌உସ୍ପୃଶତ |
ଗଜାନାଂ ଷଟ୍ସହସ୍ରସ୍ୟ ତ୍ରିଗୁଣସ୍ୟ ବଲଂ ଦଦୌ ||

ଭସ୍ମପ୍ରଭାଵାତ ସଂପ୍ରାପ୍ତବଲୈଶ୍ଵର୍ୟ ଧୃତି ସ୍ମୃତିଃ |
ସ ରାଜପୁତ୍ରଃ ଶୁଶୁଭେ ଶରଦର୍କ ଇଵ ଶ୍ରିୟା ||

ତମାହ ପ୍ରାଞ୍ଜଲିଂ ଭୂୟଃ ସ ୟୋଗୀ ନୃପନନ୍ଦନମ |
ଏଷ ଖଡ୍ଗୋ ମୟା ଦତ୍ତସ୍ତପୋମନ୍ତ୍ରାନୁଭାଵତଃ ||

ଶିତଧାରମିମଂ ଖଡ୍ଗଂ ୟସ୍ମୈ ଦର୍ଶୟସେ ସ୍ଫୁଟମ |
ସ ସଦ୍ୟୋ ମ୍ରିୟତେ ଶତ୍ରୁଃ ସାକ୍ଷାନ୍ମୃତ୍ୟୁରପି ସ୍ଵୟମ ||

ଅସ୍ୟ ଶଙ୍ଖସ୍ୟ ନିର୍ହ୍ରାଦଂ ୟେ ଶୃଣ୍ଵନ୍ତି ତଵାହିତାଃ |
ତେ ମୂର୍ଚ୍ଛିତାଃ ପତିଷ୍ୟନ୍ତି ନ୍ୟସ୍ତଶସ୍ତ୍ରା ଵିଚେତନାଃ ||

ଖଡ୍ଗଶଙ୍ଖାଵିମୌ ଦିଵ୍ୟୌ ପରସୈନ୍ୟଵିନାଶକୌ |
ଆତ୍ମସୈନ୍ୟସ୍ଵପକ୍ଷାଣାଂ ଶୌର୍ୟତେଜୋଵିଵର୍ଧନୌ ||

ଏତୟୋଶ୍ଚ ପ୍ରଭାଵେନ ଶୈଵେନ କଵଚେନ ଚ |
ଦ୍ଵିଷଟ୍ସହସ୍ର ନାଗାନାଂ ବଲେନ ମହତାପି ଚ ||

ଭସ୍ମଧାରଣ ସାମର୍ଥ୍ୟାଚ୍ଛତ୍ରୁସୈନ୍ୟଂ ଵିଜେଷ୍ୟସେ |
ପ୍ରାପ୍ୟ ସିଂହାସନଂ ପିତ୍ର୍ୟଂ ଗୋପ୍ତା‌உସି ପୃଥିଵୀମିମାମ ||

ଇତି ଭଦ୍ରାୟୁଷଂ ସମ୍ୟଗନୁଶାସ୍ୟ ସମାତୃକମ |
ତାଭ୍ୟାଂ ସଂପୂଜିତଃ ସୋ‌உଥ ୟୋଗୀ ସ୍ଵୈରଗତିର୍ୟୟୌ ||

ଇତି ଶ୍ରୀସ୍କାନ୍ଦମହାପୁରାଣେ ବ୍ରହ୍ମୋତ୍ତରଖଣ୍ଡେ ଶିଵକଵଚ ପ୍ରଭାଵ ଵର୍ଣନଂ ନାମ ଦ୍ଵାଦଶୋ‌உଧ୍ୟାୟଃ ସଂପୂର୍ଣଃ || ||

.


അസ്യ ശ്രീ ശിവകവച സ്തോത്ര മഹാമന്ത്രസ്യ ഋഷഭയോഗീശ്വര ഋഷിഃ |
അനുഷ്ടുപ് ഛന്ദഃ |
ശ്രീസാമ്ബസദാശിവോ ദേവതാ |
ഓം ബീജമ് |
നമഃ ശക്തിഃ |
ശിവായേതി കീലകമ് |
മമ സാമ്ബസദാശിവപ്രീത്യര്ഥേ ജപേ വിനിയോഗഃ ||

കരന്യാസഃ
ഓം സദാശിവായ അംഗുഷ്ഠാഭ്യാം നമഃ | നം ഗംഗാധരായ തര്ജനീഭ്യാം നമഃ | മം മൃത്യുഞ്ജയായ മധ്യമാഭ്യാം നമഃ |

ശിം ശൂലപാണയേ അനാമികാഭ്യാം നമഃ | വാം പിനാകപാണയേ കനിഷ്ഠികാഭ്യാം നമഃ | യമ് ഉമാപതയേ കരതലകരപൃഷ്ഠാഭ്യാം നമഃ |

ഹൃദയാദി അംഗന്യാസഃ
ഓം സദാശിവായ ഹൃദയായ നമഃ | നം ഗംഗാധരായ ശിരസേ സ്വാഹാ | മം മൃത്യുഞ്ജയായ ശിഖായൈ വഷട് |

ശിം ശൂലപാണയേ കവചായ ഹുമ് | വാം പിനാകപാണയേ നേത്രത്രയായ വൗഷട് | യമ് ഉമാപതയേ അസ്ത്രായ ഫട് | ഭൂര്ഭുവസ്സുവരോമിതി ദിഗ്ബന്ധഃ ||

ധ്യാനമ്
വജ്രദംഷ്ട്രം ത്രിനയനം കാലകണ്ഠ മരിംദമമ് |
സഹസ്രകരമത്യുഗ്രം വന്ദേ ശംഭുമ് ഉമാപതിമ് ||
രുദ്രാക്ഷകങ്കണലസത്കരദണ്ഡയുഗ്മഃ പാലാന്തരാലസിതഭസ്മധൃതത്രിപുണ്ഡ്രഃ |
പഞ്ചാക്ഷരം പരിപഠന് വരമന്ത്രരാജം ധ്യായന് സദാ പശുപതിം ശരണം വ്രജേഥാഃ ||

അതഃ പരം സര്വപുരാണഗുഹ്യം നിഃശേഷപാപൗഘഹരം പവിത്രമ് |
ജയപ്രദം സര്വവിപത്പ്രമോചനം വക്ഷ്യാമി ശൈവമ് കവചം ഹിതായ തേ ||

പഞ്ചപൂജാ
ലം പൃഥിവ്യാത്മനേ ഗന്ധം സമര്പയാമി |
ഹമ് ആകാശാത്മനേ പുഷ്പൈഃ പൂജയാമി |
യം വായ്വാത്മനേ ധൂപമ് ആഘ്രാപയാമി |
രമ് അഗ്ന്യാത്മനേ ദീപം ദര്ശയാമി |
വമ് അമൃതാത്മനേ അമൃതം മഹാനൈവേദ്യം നിവേദയാമി |
സം സര്വാത്മനേ സര്വോപചാരപൂജാം സമര്പയാമി ||

മന്ത്രഃ

ഋഷഭ ഉവാച

നമസ്കൃത്യ മഹാദേവം വിശ്വവ്യാപിനമീശ്വരമ് |
വക്ഷ്യേ ശിവമയം വര്മ സര്വരക്ഷാകരം നൃണാമ് || 1 ||

ശുചൗ ദേശേ സമാസീനോ യഥാവത്കല്പിതാസനഃ |
ജിതേന്ദ്രിയോ ജിതപ്രാണശ്ചിന്തയേച്ഛിവമവ്യയമ് || 2 ||

ഹൃത്പുണ്ഡരീകാന്തരസന്നിവിഷ്ടം സ്വതേജസാ വ്യാപ്തനഭോ‌உവകാശമ് |
അതീന്ദ്രിയം സൂക്ഷ്മമനന്തമാദ്യം ധ്യായേത് പരാനന്ദമയം മഹേശമ് ||

ധ്യാനാവധൂതാഖിലകര്മബന്ധ- ശ്ചിരം ചിദാനന്ദ നിമഗ്നചേതാഃ |
ഷഡക്ഷരന്യാസ സമാഹിതാത്മാ ശൈവേന കുര്യാത്കവചേന രക്ഷാമ് ||

മാം പാതു ദേവോ‌உഖിലദേവതാത്മാ സംസാരകൂപേ പതിതം ഗഭീരേ |
തന്നാമ ദിവ്യം പരമന്ത്രമൂലം ധുനോതു മേ സര്വമഘം ഹൃദിസ്ഥമ് ||

സര്വത്ര മാം രക്ഷതു വിശ്വമൂര്തി- ര്ജ്യോതിര്മയാനന്ദഘനശ്ചിദാത്മാ |
അണോരണിയാനുരുശക്തിരേകഃ സ ഈശ്വരഃ പാതു ഭയാദശേഷാത് ||

യോ ഭൂസ്വരൂപേണ ബിഭര്തി വിശ്വം പായാത്സ ഭൂമേര്ഗിരിശോ‌உഷ്ടമൂര്തിഃ |
യോ‌உപാം സ്വരൂപേണ നൃണാം കരോതി സംജീവനം സോ‌உവതു മാം ജലേഭ്യഃ ||

കല്പാവസാനേ ഭുവനാനി ദഗ്ധ്വാ സര്വാണി യോ നൃത്യതി ഭൂരിലീലഃ |
സ കാലരുദ്രോ‌உവതു മാം ദവാഗ്നേഃ വാത്യാദിഭീതേരഖിലാച്ച താപാത് ||

പ്രദീപ്തവിദ്യുത്കനകാവഭാസോ വിദ്യാവരാഭീതി കുഠാരപാണിഃ |
ചതുര്മുഖസ്തത്പുരുഷസ്ത്രിനേത്രഃ പ്രാച്യാം സ്ഥിതോ രക്ഷതു മാമജസ്രമ് ||

കുഠാരഖേടാങ്കുശ ശൂലഢക്കാ- കപാലപാശാക്ഷ ഗുണാന്ദധാനഃ |
ചതുര്മുഖോ നീലരുചിസ്ത്രിനേത്രഃ പായാദഘോരോ ദിശി ദക്ഷിണസ്യാമ് ||

കുന്ദേന്ദുശങ്ഖസ്ഫടികാവഭാസോ വേദാക്ഷമാലാ വരദാഭയാങ്കഃ |
ത്ര്യക്ഷശ്ചതുര്വക്ത്ര ഉരുപ്രഭാവഃ സദ്യോ‌உധിജാതോ‌உവതു മാം പ്രതീച്യാമ് ||

വരാക്ഷമാലാഭയടങ്കഹസ്തഃ സരോജകിഞ്ജല്കസമാനവര്ണഃ |
ത്രിലോചനശ്ചാരുചതുര്മുഖോ മാം പായാദുദീച്യാം ദിശി വാമദേവഃ ||

വേദാഭയേഷ്ടാങ്കുശടങ്കപാശ- കപാലഢക്കാക്ഷരശൂലപാണിഃ |
സിതദ്യുതിഃ പഞ്ചമുഖോ‌உവതാന്മാമ് ഈശാന ഊര്ധ്വം പരമപ്രകാശഃ ||

മൂര്ധാനമവ്യാന്മമ ചന്ദ്രമൗലിഃ ഭാലം മമാവ്യാദഥ ഭാലനേത്രഃ |
നേത്രേ മമാവ്യാദ്ഭഗനേത്രഹാരീ നാസാം സദാ രക്ഷതു വിശ്വനാഥഃ ||

പായാച്ഛ്രുതീ മേ ശ്രുതിഗീതകീര്തിഃ കപോലമവ്യാത്സതതം കപാലീ |
വക്ത്രം സദാ രക്ഷതു പഞ്ചവക്ത്രോ ജിഹ്വാം സദാ രക്ഷതു വേദജിഹ്വഃ ||

കണ്ഠം ഗിരീശോ‌உവതു നീലകണ്ഠഃ പാണിദ്വയം പാതു പിനാകപാണിഃ |
ദോര്മൂലമവ്യാന്മമ ധര്മബാഹുഃ വക്ഷഃസ്ഥലം ദക്ഷമഖാന്തകോ‌உവ്യാത് ||

മമോദരം പാതു ഗിരീന്ദ്രധന്വാ മധ്യം മമാവ്യാന്മദനാന്തകാരീ |
ഹേരമ്ബതാതോ മമ പാതു നാഭിം പായാത്കടിം ധൂര്ജടിരീശ്വരോ മേ ||

ഊരുദ്വയം പാതു കുബേരമിത്രോ ജാനുദ്വയം മേ ജഗദീശ്വരോ‌உവ്യാത് |
ജങ്ഘായുഗം പുങ്ഗവകേതുരവ്യാത് പാദൗ മമാവ്യാത്സുരവന്ദ്യപാദഃ ||

മഹേശ്വരഃ പാതു ദിനാദിയാമേ മാം മധ്യയാമേ‌உവതു വാമദേവഃ |
ത്രിലോചനഃ പാതു തൃതീയയാമേ വൃഷധ്വജഃ പാതു ദിനാന്ത്യയാമേ ||

പായാന്നിശാദൗ ശശിശേഖരോ മാം ഗങ്ഗാധരോ രക്ഷതു മാം നിശീഥേ |
ഗൗരീപതിഃ പാതു നിശാവസാനേ മൃത്യുഞ്ജയോ രക്ഷതു സര്വകാലമ് ||

അന്തഃസ്ഥിതം രക്ഷതു ശംകരോ മാം സ്ഥാണുഃ സദാ പാതു ബഹിഃസ്ഥിതം മാമ് |
തദന്തരേ പാതു പതിഃ പശൂനാം സദാശിവോ രക്ഷതു മാം സമന്താത് ||

തിഷ്ഠന്തമവ്യാദ് ഭുവനൈകനാഥഃ പായാദ്വ്രജന്തം പ്രമഥാധിനാഥഃ |
വേദാന്തവേദ്യോ‌உവതു മാം നിഷണ്ണം മാമവ്യയഃ പാതു ശിവഃ ശയാനമ് ||

മാര്ഗേഷു മാം രക്ഷതു നീലകണ്ഠഃ ശൈലാദിദുര്ഗേഷു പുരത്രയാരിഃ |
അരണ്യവാസാദി മഹാപ്രവാസേ പായാന്മൃഗവ്യാധ ഉദാരശക്തിഃ ||

കല്പാന്തകാലോഗ്രപടുപ്രകോപ- സ്ഫുടാട്ടഹാസോച്ചലിതാണ്ഡകോശഃ |
ഘോരാരിസേനാര്ണവ ദുര്നിവാര- മഹാഭയാദ്രക്ഷതു വീരഭദ്രഃ ||

പത്ത്യശ്വമാതങ്ഗരഥാവരൂഥിനീ- സഹസ്രലക്ഷായുത കോടിഭീഷണമ് |
അക്ഷൗഹിണീനാം ശതമാതതായിനാം ഛിന്ദ്യാന്മൃഡോ ഘോരകുഠാര ധാരയാ ||

നിഹന്തു ദസ്യൂന്പ്രലയാനലാര്ചിഃ ജ്വലത്ത്രിശൂലം ത്രിപുരാന്തകസ്യ | ശാര്ദൂലസിംഹര്ക്ഷവൃകാദിഹിംസ്രാന് സംത്രാസയത്വീശധനുഃ പിനാകഃ ||

ദുഃ സ്വപ്ന ദുഃ ശകുന ദുര്ഗതി ദൗര്മനസ്യ- ദുര്ഭിക്ഷ ദുര്വ്യസന ദുഃസഹ ദുര്യശാംസി | ഉത്പാതതാപവിഷഭീതിമസദ്ഗ്രഹാര്തിം വ്യാധീംശ്ച നാശയതു മേ ജഗതാമധീശഃ ||

ഓം നമോ ഭഗവതേ സദാശിവായ

സകലതത്വാത്മകായ സര്വമന്ത്രസ്വരൂപായ സര്വയന്ത്രാധിഷ്ഠിതായ സര്വതന്ത്രസ്വരൂപായ സര്വതത്വവിദൂരായ ബ്രഹ്മരുദ്രാവതാരിണേ നീലകണ്ഠായ പാര്വതീമനോഹരപ്രിയായ സോമസൂര്യാഗ്നിലോചനായ ഭസ്മോദ്ധൂലിതവിഗ്രഹായ മഹാമണി മുകുടധാരണായ മാണിക്യഭൂഷണായ സൃഷ്ടിസ്ഥിതിപ്രലയകാല- രൗദ്രാവതാരായ ദക്ഷാധ്വരധ്വംസകായ മഹാകാലഭേദനായ മൂലധാരൈകനിലയായ തത്വാതീതായ ഗംഗാധരായ സര്വദേവാദിദേവായ ഷഡാശ്രയായ വേദാന്തസാരായ ത്രിവര്ഗസാധനായ അനന്തകോടിബ്രഹ്മാണ്ഡനായകായ അനന്ത വാസുകി തക്ഷക- കര്കോടക ശങ്ഖ കുലിക- പദ്മ മഹാപദ്മേതി- അഷ്ടമഹാനാഗകുലഭൂഷണായ പ്രണവസ്വരൂപായ ചിദാകാശായ ആകാശ ദിക് സ്വരൂപായ ഗ്രഹനക്ഷത്രമാലിനേ സകലായ കലങ്കരഹിതായ സകലലോകൈകകര്ത്രേ സകലലോകൈകഭര്ത്രേ സകലലോകൈകസംഹര്ത്രേ സകലലോകൈകഗുരവേ സകലലോകൈകസാക്ഷിണേ സകലനിഗമഗുഹ്യായ സകലവേദാന്തപാരഗായ സകലലോകൈകവരപ്രദായ സകലലോകൈകശംകരായ സകലദുരിതാര്തിഭഞ്ജനായ സകലജഗദഭയംകരായ ശശാങ്കശേഖരായ ശാശ്വതനിജാവാസായ നിരാകാരായ നിരാഭാസായ നിരാമയായ നിര്മലായ നിര്മദായ നിശ്ചിന്തായ നിരഹംകാരായ നിരംകുശായ നിഷ്കലങ്കായ നിര്ഗുണായ നിഷ്കാമായ നിരൂപപ്ലവായ നിരുപദ്രവായ നിരവദ്യായ നിരന്തരായ നിഷ്കാരണായ നിരാതംകായ നിഷ്പ്രപഞ്ചായ നിസ്സങ്ഗായ നിര്ദ്വന്ദ്വായ നിരാധാരായ നീരാഗായ നിഷ്ക്രോധായ നിര്ലോപായ നിഷ്പാപായ നിര്ഭയായ നിര്വികല്പായ നിര്ഭേദായ നിഷ്ക്രിയായ നിസ്തുലായ നിഃസംശയായ നിരംജനായ നിരുപമവിഭവായ നിത്യശുദ്ധബുദ്ധമുക്തപരിപൂര്ണ- സച്ചിദാനന്ദാദ്വയായ പരമശാന്തസ്വരൂപായ പരമശാന്തപ്രകാശായ തേജോരൂപായ തേജോമയായ തേജോ‌உധിപതയേ ജയ ജയ രുദ്ര മഹാരുദ്ര മഹാരൗദ്ര ഭദ്രാവതാര മഹാഭൈരവ കാലഭൈരവ കല്പാന്തഭൈരവ കപാലമാലാധര ഖട്വാങ്ഗ ചര്മഖഡ്ഗധര പാശാങ്കുശ- ഡമരൂശൂല ചാപബാണഗദാശക്തിഭിംദിപാല- തോമര മുസല മുദ്ഗര പാശ പരിഘ- ഭുശുണ്ഡീ ശതഘ്നീ ചക്രാദ്യായുധഭീഷണാകാര- സഹസ്രമുഖദംഷ്ട്രാകരാലവദന വികടാട്ടഹാസ വിസ്ഫാരിത ബ്രഹ്മാണ്ഡമണ്ഡല നാഗേന്ദ്രകുണ്ഡല നാഗേന്ദ്രഹാര നാഗേന്ദ്രവലയ നാഗേന്ദ്രചര്മധര നാഗേന്ദ്രനികേതന മൃത്യുഞ്ജയ ത്ര്യമ്ബക ത്രിപുരാന്തക വിശ്വരൂപ വിരൂപാക്ഷ വിശ്വേശ്വര വൃഷഭവാഹന വിഷവിഭൂഷണ വിശ്വതോമുഖ സര്വതോമുഖ മാം രക്ഷ രക്ഷ ജ്വലജ്വല പ്രജ്വല പ്രജ്വല മഹാമൃത്യുഭയം ശമയ ശമയ അപമൃത്യുഭയം നാശയ നാശയ രോഗഭയമ് ഉത്സാദയോത്സാദയ വിഷസര്പഭയം ശമയ ശമയ ചോരാന് മാരയ മാരയ മമ ശത്രൂന് ഉച്ചാടയോച്ചാടയ ത്രിശൂലേന വിദാരയ വിദാരയ കുഠാരേണ ഭിന്ധി ഭിന്ധി ഖഡ്ഗേന ഛിന്ദ്ദി ഛിന്ദ്ദി ഖട്വാങ്ഗേന വിപോധയ വിപോധയ മുസലേന നിഷ്പേഷയ നിഷ്പേഷയ ബാണൈഃ സംതാഡയ സംതാഡയ യക്ഷ രക്ഷാംസി ഭീഷയ ഭീഷയ അശേഷ ഭൂതാന് വിദ്രാവയ വിദ്രാവയ കൂഷ്മാണ്ഡഭൂതവേതാലമാരീഗണ- ബ്രഹ്മരാക്ഷസഗണാന് സംത്രാസയ സംത്രാസയ മമ അഭയം കുരു കുരു മമ പാപം ശോധയ ശോധയ വിത്രസ്തം മാമ് ആശ്വാസയ ആശ്വാസയ നരകമഹാഭയാന് മാമ് ഉദ്ധര ഉദ്ധര അമൃതകടാക്ഷവീക്ഷണേന മാം- ആലോകയ ആലോകയ സംജീവയ സംജീവയ ക്ഷുത്തൃഷ്ണാര്തം മാമ് ആപ്യായയ ആപ്യായയ ദുഃഖാതുരം മാമ് ആനന്ദയ ആനന്ദയ ശിവകവചേന മാമ് ആച്ഛാദയ ആച്ഛാദയ

ഹര ഹര മൃത്യുംജയ ത്ര്യമ്ബക സദാശിവ പരമശിവ നമസ്തേ നമസ്തേ നമഃ ||

പൂര്വവത് – ഹൃദയാദി ന്യാസഃ |

പഞ്ചപൂജാ ||

ഭൂര്ഭുവസ്സുവരോമിതി ദിഗ്വിമോകഃ ||

ഫലശ്രുതിഃ
ഋഷഭ ഉവാച ഇത്യേതത്പരമം ശൈവം കവചം വ്യാഹൃതം മയാ |
സര്വ ബാധാ പ്രശമനം രഹസ്യം സര്വ ദേഹിനാമ് ||

യഃ സദാ ധാരയേന്മര്ത്യഃ ശൈവം കവചമുത്തമമ് |
ന തസ്യ ജായതേ കാപി ഭയം ശംഭോരനുഗ്രഹാത് ||

ക്ഷീണായുഃ പ്രാപ്തമൃത്യുര്വാ മഹാരോഗഹതോ‌உപി വാ |
സദ്യഃ സുഖമവാപ്നോതി ദീര്ഘമായുശ്ച വിന്ദതി ||

സര്വദാരിദ്രയശമനം സൗമാങ്ഗല്യവിവര്ധനമ് |
യോ ധത്തേ കവചം ശൈവം സ ദേവൈരപി പൂജ്യതേ ||

മഹാപാതകസങ്ഘാതൈര്മുച്യതേ ചോപപാതകൈഃ |
ദേഹാന്തേ മുക്തിമാപ്നോതി ശിവവര്മാനുഭാവതഃ ||

ത്വമപി ശ്രദ്ദയാ വത്സ ശൈവം കവചമുത്തമമ് |
ധാരയസ്വ മയാ ദത്തം സദ്യഃ ശ്രേയോ ഹ്യവാപ്സ്യസി ||

ശ്രീസൂത ഉവാച

ഇത്യുക്ത്വാ ഋഷഭോ യോഗീ തസ്മൈ പാര്ഥിവ സൂനവേ |
ദദൗ ശങ്ഖം മഹാരാവം ഖഡ്ഗം ച അരിനിഷൂദനമ് ||

പുനശ്ച ഭസ്മ സംമംത്ര്യ തദങ്ഗം പരിതോ‌உസ്പൃശത് |
ഗജാനാം ഷട്സഹസ്രസ്യ ത്രിഗുണസ്യ ബലം ദദൗ ||

ഭസ്മപ്രഭാവാത് സംപ്രാപ്തബലൈശ്വര്യ ധൃതി സ്മൃതിഃ |
സ രാജപുത്രഃ ശുശുഭേ ശരദര്ക ഇവ ശ്രിയാ ||

തമാഹ പ്രാഞ്ജലിം ഭൂയഃ സ യോഗീ നൃപനന്ദനമ് |
ഏഷ ഖഡ്ഗോ മയാ ദത്തസ്തപോമന്ത്രാനുഭാവതഃ ||

ശിതധാരമിമം ഖഡ്ഗം യസ്മൈ ദര്ശയസേ സ്ഫുടമ് |
സ സദ്യോ മ്രിയതേ ശത്രുഃ സാക്ഷാന്മൃത്യുരപി സ്വയമ് ||

അസ്യ ശങ്ഖസ്യ നിര്ഹ്രാദം യേ ശൃണ്വന്തി തവാഹിതാഃ |
തേ മൂര്ച്ഛിതാഃ പതിഷ്യന്തി ന്യസ്തശസ്ത്രാ വിചേതനാഃ ||

ഖഡ്ഗശങ്ഖാവിമൗ ദിവ്യൗ പരസൈന്യവിനാശകൗ |
ആത്മസൈന്യസ്വപക്ഷാണാം ശൗര്യതേജോവിവര്ധനൗ ||

ഏതയോശ്ച പ്രഭാവേന ശൈവേന കവചേന ച |
ദ്വിഷട്സഹസ്ര നാഗാനാം ബലേന മഹതാപി ച ||

ഭസ്മധാരണ സാമര്ഥ്യാച്ഛത്രുസൈന്യം വിജേഷ്യസേ |
പ്രാപ്യ സിംഹാസനം പിത്ര്യം ഗോപ്താ‌உസി പൃഥിവീമിമാമ് ||

ഇതി ഭദ്രായുഷം സമ്യഗനുശാസ്യ സമാതൃകമ് |
താഭ്യാം സംപൂജിതഃ സോ‌உഥ യോഗീ സ്വൈരഗതിര്യയൗ ||

ഇതി ശ്രീസ്കാന്ദമഹാപുരാണേ ബ്രഹ്മോത്തരഖണ്ഡേ ശിവകവച പ്രഭാവ വര്ണനം നാമ ദ്വാദശോ‌உധ്യായഃ സംപൂര്ണഃ || ||

.


ಅಸ್ಯ ಶ್ರೀ ಶಿವಕವಚ ಸ್ತೋತ್ರ ಮಹಾಮಂತ್ರಸ್ಯ ಋಷಭಯೋಗೀಶ್ವರ ಋಷಿಃ |
ಅನುಷ್ಟುಪ್ ಛಂದಃ |
ಶ್ರೀಸಾಂಬಸದಾಶಿವೋ ದೇವತಾ |
ಓಂ ಬೀಜಮ್ |
ನಮಃ ಶಕ್ತಿಃ |
ಶಿವಾಯೇತಿ ಕೀಲಕಮ್ |
ಮಮ ಸಾಂಬಸದಾಶಿವಪ್ರೀತ್ಯರ್ಥೇ ಜಪೇ ವಿನಿಯೋಗಃ ||

ಕರನ್ಯಾಸಃ
ಓಂ ಸದಾಶಿವಾಯ ಅಂಗುಷ್ಠಾಭ್ಯಾಂ ನಮಃ | ನಂ ಗಂಗಾಧರಾಯ ತರ್ಜನೀಭ್ಯಾಂ ನಮಃ | ಮಂ ಮೃತ್ಯುಂಜಯಾಯ ಮಧ್ಯಮಾಭ್ಯಾಂ ನಮಃ |

ಶಿಂ ಶೂಲಪಾಣಯೇ ಅನಾಮಿಕಾಭ್ಯಾಂ ನಮಃ | ವಾಂ ಪಿನಾಕಪಾಣಯೇ ಕನಿಷ್ಠಿಕಾಭ್ಯಾಂ ನಮಃ | ಯಮ್ ಉಮಾಪತಯೇ ಕರತಲಕರಪೃಷ್ಠಾಭ್ಯಾಂ ನಮಃ |

ಹೃದಯಾದಿ ಅಂಗನ್ಯಾಸಃ
ಓಂ ಸದಾಶಿವಾಯ ಹೃದಯಾಯ ನಮಃ | ನಂ ಗಂಗಾಧರಾಯ ಶಿರಸೇ ಸ್ವಾಹಾ | ಮಂ ಮೃತ್ಯುಂಜಯಾಯ ಶಿಖಾಯೈ ವಷಟ್ |

ಶಿಂ ಶೂಲಪಾಣಯೇ ಕವಚಾಯ ಹುಮ್ | ವಾಂ ಪಿನಾಕಪಾಣಯೇ ನೇತ್ರತ್ರಯಾಯ ವೌಷಟ್ | ಯಮ್ ಉಮಾಪತಯೇ ಅಸ್ತ್ರಾಯ ಫಟ್ | ಭೂರ್ಭುವಸ್ಸುವರೋಮಿತಿ ದಿಗ್ಬಂಧಃ ||

ಧ್ಯಾನಮ್
ವಜ್ರದಂಷ್ಟ್ರಂ ತ್ರಿನಯನಂ ಕಾಲಕಂಠ ಮರಿಂದಮಮ್ |
ಸಹಸ್ರಕರಮತ್ಯುಗ್ರಂ ವಂದೇ ಶಂಭುಮ್ ಉಮಾಪತಿಮ್ ||
ರುದ್ರಾಕ್ಷಕಂಕಣಲಸತ್ಕರದಂಡಯುಗ್ಮಃ ಪಾಲಾಂತರಾಲಸಿತಭಸ್ಮಧೃತತ್ರಿಪುಂಡ್ರಃ |
ಪಂಚಾಕ್ಷರಂ ಪರಿಪಠನ್ ವರಮಂತ್ರರಾಜಂ ಧ್ಯಾಯನ್ ಸದಾ ಪಶುಪತಿಂ ಶರಣಂ ವ್ರಜೇಥಾಃ ||

ಅತಃ ಪರಂ ಸರ್ವಪುರಾಣಗುಹ್ಯಂ ನಿಃಶೇಷಪಾಪೌಘಹರಂ ಪವಿತ್ರಮ್ |
ಜಯಪ್ರದಂ ಸರ್ವವಿಪತ್ಪ್ರಮೋಚನಂ ವಕ್ಷ್ಯಾಮಿ ಶೈವಮ್ ಕವಚಂ ಹಿತಾಯ ತೇ ||

ಪಂಚಪೂಜಾ
ಲಂ ಪೃಥಿವ್ಯಾತ್ಮನೇ ಗಂಧಂ ಸಮರ್ಪಯಾಮಿ |
ಹಮ್ ಆಕಾಶಾತ್ಮನೇ ಪುಷ್ಪೈಃ ಪೂಜಯಾಮಿ |
ಯಂ ವಾಯ್ವಾತ್ಮನೇ ಧೂಪಮ್ ಆಘ್ರಾಪಯಾಮಿ |
ರಮ್ ಅಗ್ನ್ಯಾತ್ಮನೇ ದೀಪಂ ದರ್ಶಯಾಮಿ |
ವಮ್ ಅಮೃತಾತ್ಮನೇ ಅಮೃತಂ ಮಹಾನೈವೇದ್ಯಂ ನಿವೇದಯಾಮಿ |
ಸಂ ಸರ್ವಾತ್ಮನೇ ಸರ್ವೋಪಚಾರಪೂಜಾಂ ಸಮರ್ಪಯಾಮಿ ||

ಮಂತ್ರಃ

ಋಷಭ ಉವಾಚ

ನಮಸ್ಕೃತ್ಯ ಮಹಾದೇವಂ ವಿಶ್ವವ್ಯಾಪಿನಮೀಶ್ವರಮ್ |
ವಕ್ಷ್ಯೇ ಶಿವಮಯಂ ವರ್ಮ ಸರ್ವರಕ್ಷಾಕರಂ ನೃಣಾಮ್ || 1 ||

ಶುಚೌ ದೇಶೇ ಸಮಾಸೀನೋ ಯಥಾವತ್ಕಲ್ಪಿತಾಸನಃ |
ಜಿತೇಂದ್ರಿಯೋ ಜಿತಪ್ರಾಣಶ್ಚಿಂತಯೇಚ್ಛಿವಮವ್ಯಯಮ್ || 2 ||

ಹೃತ್ಪುಂಡರೀಕಾಂತರಸನ್ನಿವಿಷ್ಟಂ ಸ್ವತೇಜಸಾ ವ್ಯಾಪ್ತನಭೋ‌உವಕಾಶಮ್ |
ಅತೀಂದ್ರಿಯಂ ಸೂಕ್ಷ್ಮಮನಂತಮಾದ್ಯಂ ಧ್ಯಾಯೇತ್ ಪರಾನಂದಮಯಂ ಮಹೇಶಮ್ ||

ಧ್ಯಾನಾವಧೂತಾಖಿಲಕರ್ಮಬಂಧ- ಶ್ಚಿರಂ ಚಿದಾನಂದ ನಿಮಗ್ನಚೇತಾಃ |
ಷಡಕ್ಷರನ್ಯಾಸ ಸಮಾಹಿತಾತ್ಮಾ ಶೈವೇನ ಕುರ್ಯಾತ್ಕವಚೇನ ರಕ್ಷಾಮ್ ||

ಮಾಂ ಪಾತು ದೇವೋ‌உಖಿಲದೇವತಾತ್ಮಾ ಸಂಸಾರಕೂಪೇ ಪತಿತಂ ಗಭೀರೇ |
ತನ್ನಾಮ ದಿವ್ಯಂ ಪರಮಂತ್ರಮೂಲಂ ಧುನೋತು ಮೇ ಸರ್ವಮಘಂ ಹೃದಿಸ್ಥಮ್ ||

ಸರ್ವತ್ರ ಮಾಂ ರಕ್ಷತು ವಿಶ್ವಮೂರ್ತಿ- ರ್ಜ್ಯೋತಿರ್ಮಯಾನಂದಘನಶ್ಚಿದಾತ್ಮಾ |
ಅಣೋರಣಿಯಾನುರುಶಕ್ತಿರೇಕಃ ಸ ಈಶ್ವರಃ ಪಾತು ಭಯಾದಶೇಷಾತ್ ||

ಯೋ ಭೂಸ್ವರೂಪೇಣ ಬಿಭರ್ತಿ ವಿಶ್ವಂ ಪಾಯಾತ್ಸ ಭೂಮೇರ್ಗಿರಿಶೋ‌உಷ್ಟಮೂರ್ತಿಃ |
ಯೋ‌உಪಾಂ ಸ್ವರೂಪೇಣ ನೃಣಾಂ ಕರೋತಿ ಸಂಜೀವನಂ ಸೋ‌உವತು ಮಾಂ ಜಲೇಭ್ಯಃ ||

ಕಲ್ಪಾವಸಾನೇ ಭುವನಾನಿ ದಗ್ಧ್ವಾ ಸರ್ವಾಣಿ ಯೋ ನೃತ್ಯತಿ ಭೂರಿಲೀಲಃ |
ಸ ಕಾಲರುದ್ರೋ‌உವತು ಮಾಂ ದವಾಗ್ನೇಃ ವಾತ್ಯಾದಿಭೀತೇರಖಿಲಾಚ್ಚ ತಾಪಾತ್ ||

ಪ್ರದೀಪ್ತವಿದ್ಯುತ್ಕನಕಾವಭಾಸೋ ವಿದ್ಯಾವರಾಭೀತಿ ಕುಠಾರಪಾಣಿಃ |
ಚತುರ್ಮುಖಸ್ತತ್ಪುರುಷಸ್ತ್ರಿನೇತ್ರಃ ಪ್ರಾಚ್ಯಾಂ ಸ್ಥಿತೋ ರಕ್ಷತು ಮಾಮಜಸ್ರಮ್ ||

ಕುಠಾರಖೇಟಾಂಕುಶ ಶೂಲಢಕ್ಕಾ- ಕಪಾಲಪಾಶಾಕ್ಷ ಗುಣಾಂದಧಾನಃ |
ಚತುರ್ಮುಖೋ ನೀಲರುಚಿಸ್ತ್ರಿನೇತ್ರಃ ಪಾಯಾದಘೋರೋ ದಿಶಿ ದಕ್ಷಿಣಸ್ಯಾಮ್ ||

ಕುಂದೇಂದುಶಂಖಸ್ಫಟಿಕಾವಭಾಸೋ ವೇದಾಕ್ಷಮಾಲಾ ವರದಾಭಯಾಂಕಃ |
ತ್ರ್ಯಕ್ಷಶ್ಚತುರ್ವಕ್ತ್ರ ಉರುಪ್ರಭಾವಃ ಸದ್ಯೋ‌உಧಿಜಾತೋ‌உವತು ಮಾಂ ಪ್ರತೀಚ್ಯಾಮ್ ||

ವರಾಕ್ಷಮಾಲಾಭಯಟಂಕಹಸ್ತಃ ಸರೋಜಕಿಂಜಲ್ಕಸಮಾನವರ್ಣಃ |
ತ್ರಿಲೋಚನಶ್ಚಾರುಚತುರ್ಮುಖೋ ಮಾಂ ಪಾಯಾದುದೀಚ್ಯಾಂ ದಿಶಿ ವಾಮದೇವಃ ||

ವೇದಾಭಯೇಷ್ಟಾಂಕುಶಟಂಕಪಾಶ- ಕಪಾಲಢಕ್ಕಾಕ್ಷರಶೂಲಪಾಣಿಃ |
ಸಿತದ್ಯುತಿಃ ಪಂಚಮುಖೋ‌உವತಾನ್ಮಾಮ್ ಈಶಾನ ಊರ್ಧ್ವಂ ಪರಮಪ್ರಕಾಶಃ ||

ಮೂರ್ಧಾನಮವ್ಯಾನ್ಮಮ ಚಂದ್ರಮೌಲಿಃ ಭಾಲಂ ಮಮಾವ್ಯಾದಥ ಭಾಲನೇತ್ರಃ |
ನೇತ್ರೇ ಮಮಾವ್ಯಾದ್ಭಗನೇತ್ರಹಾರೀ ನಾಸಾಂ ಸದಾ ರಕ್ಷತು ವಿಶ್ವನಾಥಃ ||

ಪಾಯಾಚ್ಛ್ರುತೀ ಮೇ ಶ್ರುತಿಗೀತಕೀರ್ತಿಃ ಕಪೋಲಮವ್ಯಾತ್ಸತತಂ ಕಪಾಲೀ |
ವಕ್ತ್ರಂ ಸದಾ ರಕ್ಷತು ಪಂಚವಕ್ತ್ರೋ ಜಿಹ್ವಾಂ ಸದಾ ರಕ್ಷತು ವೇದಜಿಹ್ವಃ ||

ಕಂಠಂ ಗಿರೀಶೋ‌உವತು ನೀಲಕಂಠಃ ಪಾಣಿದ್ವಯಂ ಪಾತು ಪಿನಾಕಪಾಣಿಃ |
ದೋರ್ಮೂಲಮವ್ಯಾನ್ಮಮ ಧರ್ಮಬಾಹುಃ ವಕ್ಷಃಸ್ಥಲಂ ದಕ್ಷಮಖಾಂತಕೋ‌உವ್ಯಾತ್ ||

ಮಮೋದರಂ ಪಾತು ಗಿರೀಂದ್ರಧನ್ವಾ ಮಧ್ಯಂ ಮಮಾವ್ಯಾನ್ಮದನಾಂತಕಾರೀ |
ಹೇರಂಬತಾತೋ ಮಮ ಪಾತು ನಾಭಿಂ ಪಾಯಾತ್ಕಟಿಂ ಧೂರ್ಜಟಿರೀಶ್ವರೋ ಮೇ ||

ಊರುದ್ವಯಂ ಪಾತು ಕುಬೇರಮಿತ್ರೋ ಜಾನುದ್ವಯಂ ಮೇ ಜಗದೀಶ್ವರೋ‌உವ್ಯಾತ್ |
ಜಂಘಾಯುಗಂ ಪುಂಗವಕೇತುರವ್ಯಾತ್ ಪಾದೌ ಮಮಾವ್ಯಾತ್ಸುರವಂದ್ಯಪಾದಃ ||

ಮಹೇಶ್ವರಃ ಪಾತು ದಿನಾದಿಯಾಮೇ ಮಾಂ ಮಧ್ಯಯಾಮೇ‌உವತು ವಾಮದೇವಃ |
ತ್ರಿಲೋಚನಃ ಪಾತು ತೃತೀಯಯಾಮೇ ವೃಷಧ್ವಜಃ ಪಾತು ದಿನಾಂತ್ಯಯಾಮೇ ||

ಪಾಯಾನ್ನಿಶಾದೌ ಶಶಿಶೇಖರೋ ಮಾಂ ಗಂಗಾಧರೋ ರಕ್ಷತು ಮಾಂ ನಿಶೀಥೇ |
ಗೌರೀಪತಿಃ ಪಾತು ನಿಶಾವಸಾನೇ ಮೃತ್ಯುಂಜಯೋ ರಕ್ಷತು ಸರ್ವಕಾಲಮ್ ||

ಅಂತಃಸ್ಥಿತಂ ರಕ್ಷತು ಶಂಕರೋ ಮಾಂ ಸ್ಥಾಣುಃ ಸದಾ ಪಾತು ಬಹಿಃಸ್ಥಿತಂ ಮಾಮ್ |
ತದಂತರೇ ಪಾತು ಪತಿಃ ಪಶೂನಾಂ ಸದಾಶಿವೋ ರಕ್ಷತು ಮಾಂ ಸಮಂತಾತ್ ||

ತಿಷ್ಠಂತಮವ್ಯಾದ್ ಭುವನೈಕನಾಥಃ ಪಾಯಾದ್ವ್ರಜಂತಂ ಪ್ರಮಥಾಧಿನಾಥಃ |
ವೇದಾಂತವೇದ್ಯೋ‌உವತು ಮಾಂ ನಿಷಣ್ಣಂ ಮಾಮವ್ಯಯಃ ಪಾತು ಶಿವಃ ಶಯಾನಮ್ ||

ಮಾರ್ಗೇಷು ಮಾಂ ರಕ್ಷತು ನೀಲಕಂಠಃ ಶೈಲಾದಿದುರ್ಗೇಷು ಪುರತ್ರಯಾರಿಃ |
ಅರಣ್ಯವಾಸಾದಿ ಮಹಾಪ್ರವಾಸೇ ಪಾಯಾನ್ಮೃಗವ್ಯಾಧ ಉದಾರಶಕ್ತಿಃ ||

ಕಲ್ಪಾಂತಕಾಲೋಗ್ರಪಟುಪ್ರಕೋಪ- ಸ್ಫುಟಾಟ್ಟಹಾಸೋಚ್ಚಲಿತಾಂಡಕೋಶಃ |
ಘೋರಾರಿಸೇನಾರ್ಣವ ದುರ್ನಿವಾರ- ಮಹಾಭಯಾದ್ರಕ್ಷತು ವೀರಭದ್ರಃ ||

ಪತ್ತ್ಯಶ್ವಮಾತಂಗರಥಾವರೂಥಿನೀ- ಸಹಸ್ರಲಕ್ಷಾಯುತ ಕೋಟಿಭೀಷಣಮ್ |
ಅಕ್ಷೌಹಿಣೀನಾಂ ಶತಮಾತತಾಯಿನಾಂ ಛಿಂದ್ಯಾನ್ಮೃಡೋ ಘೋರಕುಠಾರ ಧಾರಯಾ ||

ನಿಹಂತು ದಸ್ಯೂನ್ಪ್ರಲಯಾನಲಾರ್ಚಿಃ ಜ್ವಲತ್ತ್ರಿಶೂಲಂ ತ್ರಿಪುರಾಂತಕಸ್ಯ | ಶಾರ್ದೂಲಸಿಂಹರ್ಕ್ಷವೃಕಾದಿಹಿಂಸ್ರಾನ್ ಸಂತ್ರಾಸಯತ್ವೀಶಧನುಃ ಪಿನಾಕಃ ||

ದುಃ ಸ್ವಪ್ನ ದುಃ ಶಕುನ ದುರ್ಗತಿ ದೌರ್ಮನಸ್ಯ- ದುರ್ಭಿಕ್ಷ ದುರ್ವ್ಯಸನ ದುಃಸಹ ದುರ್ಯಶಾಂಸಿ | ಉತ್ಪಾತತಾಪವಿಷಭೀತಿಮಸದ್ಗ್ರಹಾರ್ತಿಂ ವ್ಯಾಧೀಂಶ್ಚ ನಾಶಯತು ಮೇ ಜಗತಾಮಧೀಶಃ ||

ಓಂ ನಮೋ ಭಗವತೇ ಸದಾಶಿವಾಯ

ಸಕಲತತ್ವಾತ್ಮಕಾಯ ಸರ್ವಮಂತ್ರಸ್ವರೂಪಾಯ ಸರ್ವಯಂತ್ರಾಧಿಷ್ಠಿತಾಯ ಸರ್ವತಂತ್ರಸ್ವರೂಪಾಯ ಸರ್ವತತ್ವವಿದೂರಾಯ ಬ್ರಹ್ಮರುದ್ರಾವತಾರಿಣೇ ನೀಲಕಂಠಾಯ ಪಾರ್ವತೀಮನೋಹರಪ್ರಿಯಾಯ ಸೋಮಸೂರ್ಯಾಗ್ನಿಲೋಚನಾಯ ಭಸ್ಮೋದ್ಧೂಲಿತವಿಗ್ರಹಾಯ ಮಹಾಮಣಿ ಮುಕುಟಧಾರಣಾಯ ಮಾಣಿಕ್ಯಭೂಷಣಾಯ ಸೃಷ್ಟಿಸ್ಥಿತಿಪ್ರಲಯಕಾಲ- ರೌದ್ರಾವತಾರಾಯ ದಕ್ಷಾಧ್ವರಧ್ವಂಸಕಾಯ ಮಹಾಕಾಲಭೇದನಾಯ ಮೂಲಧಾರೈಕನಿಲಯಾಯ ತತ್ವಾತೀತಾಯ ಗಂಗಾಧರಾಯ ಸರ್ವದೇವಾದಿದೇವಾಯ ಷಡಾಶ್ರಯಾಯ ವೇದಾಂತಸಾರಾಯ ತ್ರಿವರ್ಗಸಾಧನಾಯ ಅನಂತಕೋಟಿಬ್ರಹ್ಮಾಂಡನಾಯಕಾಯ ಅನಂತ ವಾಸುಕಿ ತಕ್ಷಕ- ಕರ್ಕೋಟಕ ಶಂಖ ಕುಲಿಕ- ಪದ್ಮ ಮಹಾಪದ್ಮೇತಿ- ಅಷ್ಟಮಹಾನಾಗಕುಲಭೂಷಣಾಯ ಪ್ರಣವಸ್ವರೂಪಾಯ ಚಿದಾಕಾಶಾಯ ಆಕಾಶ ದಿಕ್ ಸ್ವರೂಪಾಯ ಗ್ರಹನಕ್ಷತ್ರಮಾಲಿನೇ ಸಕಲಾಯ ಕಲಂಕರಹಿತಾಯ ಸಕಲಲೋಕೈಕಕರ್ತ್ರೇ ಸಕಲಲೋಕೈಕಭರ್ತ್ರೇ ಸಕಲಲೋಕೈಕಸಂಹರ್ತ್ರೇ ಸಕಲಲೋಕೈಕಗುರವೇ ಸಕಲಲೋಕೈಕಸಾಕ್ಷಿಣೇ ಸಕಲನಿಗಮಗುಹ್ಯಾಯ ಸಕಲವೇದಾಂತಪಾರಗಾಯ ಸಕಲಲೋಕೈಕವರಪ್ರದಾಯ ಸಕಲಲೋಕೈಕಶಂಕರಾಯ ಸಕಲದುರಿತಾರ್ತಿಭಂಜನಾಯ ಸಕಲಜಗದಭಯಂಕರಾಯ ಶಶಾಂಕಶೇಖರಾಯ ಶಾಶ್ವತನಿಜಾವಾಸಾಯ ನಿರಾಕಾರಾಯ ನಿರಾಭಾಸಾಯ ನಿರಾಮಯಾಯ ನಿರ್ಮಲಾಯ ನಿರ್ಮದಾಯ ನಿಶ್ಚಿಂತಾಯ ನಿರಹಂಕಾರಾಯ ನಿರಂಕುಶಾಯ ನಿಷ್ಕಲಂಕಾಯ ನಿರ್ಗುಣಾಯ ನಿಷ್ಕಾಮಾಯ ನಿರೂಪಪ್ಲವಾಯ ನಿರುಪದ್ರವಾಯ ನಿರವದ್ಯಾಯ ನಿರಂತರಾಯ ನಿಷ್ಕಾರಣಾಯ ನಿರಾತಂಕಾಯ ನಿಷ್ಪ್ರಪಂಚಾಯ ನಿಸ್ಸಂಗಾಯ ನಿರ್ದ್ವಂದ್ವಾಯ ನಿರಾಧಾರಾಯ ನೀರಾಗಾಯ ನಿಷ್ಕ್ರೋಧಾಯ ನಿರ್ಲೋಪಾಯ ನಿಷ್ಪಾಪಾಯ ನಿರ್ಭಯಾಯ ನಿರ್ವಿಕಲ್ಪಾಯ ನಿರ್ಭೇದಾಯ ನಿಷ್ಕ್ರಿಯಾಯ ನಿಸ್ತುಲಾಯ ನಿಃಸಂಶಯಾಯ ನಿರಂಜನಾಯ ನಿರುಪಮವಿಭವಾಯ ನಿತ್ಯಶುದ್ಧಬುದ್ಧಮುಕ್ತಪರಿಪೂರ್ಣ- ಸಚ್ಚಿದಾನಂದಾದ್ವಯಾಯ ಪರಮಶಾಂತಸ್ವರೂಪಾಯ ಪರಮಶಾಂತಪ್ರಕಾಶಾಯ ತೇಜೋರೂಪಾಯ ತೇಜೋಮಯಾಯ ತೇಜೋ‌உಧಿಪತಯೇ ಜಯ ಜಯ ರುದ್ರ ಮಹಾರುದ್ರ ಮಹಾರೌದ್ರ ಭದ್ರಾವತಾರ ಮಹಾಭೈರವ ಕಾಲಭೈರವ ಕಲ್ಪಾಂತಭೈರವ ಕಪಾಲಮಾಲಾಧರ ಖಟ್ವಾಂಗ ಚರ್ಮಖಡ್ಗಧರ ಪಾಶಾಂಕುಶ- ಡಮರೂಶೂಲ ಚಾಪಬಾಣಗದಾಶಕ್ತಿಭಿಂದಿಪಾಲ- ತೋಮರ ಮುಸಲ ಮುದ್ಗರ ಪಾಶ ಪರಿಘ- ಭುಶುಂಡೀ ಶತಘ್ನೀ ಚಕ್ರಾದ್ಯಾಯುಧಭೀಷಣಾಕಾರ- ಸಹಸ್ರಮುಖದಂಷ್ಟ್ರಾಕರಾಲವದನ ವಿಕಟಾಟ್ಟಹಾಸ ವಿಸ್ಫಾರಿತ ಬ್ರಹ್ಮಾಂಡಮಂಡಲ ನಾಗೇಂದ್ರಕುಂಡಲ ನಾಗೇಂದ್ರಹಾರ ನಾಗೇಂದ್ರವಲಯ ನಾಗೇಂದ್ರಚರ್ಮಧರ ನಾಗೇಂದ್ರನಿಕೇತನ ಮೃತ್ಯುಂಜಯ ತ್ರ್ಯಂಬಕ ತ್ರಿಪುರಾಂತಕ ವಿಶ್ವರೂಪ ವಿರೂಪಾಕ್ಷ ವಿಶ್ವೇಶ್ವರ ವೃಷಭವಾಹನ ವಿಷವಿಭೂಷಣ ವಿಶ್ವತೋಮುಖ ಸರ್ವತೋಮುಖ ಮಾಂ ರಕ್ಷ ರಕ್ಷ ಜ್ವಲಜ್ವಲ ಪ್ರಜ್ವಲ ಪ್ರಜ್ವಲ ಮಹಾಮೃತ್ಯುಭಯಂ ಶಮಯ ಶಮಯ ಅಪಮೃತ್ಯುಭಯಂ ನಾಶಯ ನಾಶಯ ರೋಗಭಯಮ್ ಉತ್ಸಾದಯೋತ್ಸಾದಯ ವಿಷಸರ್ಪಭಯಂ ಶಮಯ ಶಮಯ ಚೋರಾನ್ ಮಾರಯ ಮಾರಯ ಮಮ ಶತ್ರೂನ್ ಉಚ್ಚಾಟಯೋಚ್ಚಾಟಯ ತ್ರಿಶೂಲೇನ ವಿದಾರಯ ವಿದಾರಯ ಕುಠಾರೇಣ ಭಿಂಧಿ ಭಿಂಧಿ ಖಡ್ಗೇನ ಛಿಂದ್ದಿ ಛಿಂದ್ದಿ ಖಟ್ವಾಂಗೇನ ವಿಪೋಧಯ ವಿಪೋಧಯ ಮುಸಲೇನ ನಿಷ್ಪೇಷಯ ನಿಷ್ಪೇಷಯ ಬಾಣೈಃ ಸಂತಾಡಯ ಸಂತಾಡಯ ಯಕ್ಷ ರಕ್ಷಾಂಸಿ ಭೀಷಯ ಭೀಷಯ ಅಶೇಷ ಭೂತಾನ್ ವಿದ್ರಾವಯ ವಿದ್ರಾವಯ ಕೂಷ್ಮಾಂಡಭೂತವೇತಾಲಮಾರೀಗಣ- ಬ್ರಹ್ಮರಾಕ್ಷಸಗಣಾನ್ ಸಂತ್ರಾಸಯ ಸಂತ್ರಾಸಯ ಮಮ ಅಭಯಂ ಕುರು ಕುರು ಮಮ ಪಾಪಂ ಶೋಧಯ ಶೋಧಯ ವಿತ್ರಸ್ತಂ ಮಾಮ್ ಆಶ್ವಾಸಯ ಆಶ್ವಾಸಯ ನರಕಮಹಾಭಯಾನ್ ಮಾಮ್ ಉದ್ಧರ ಉದ್ಧರ ಅಮೃತಕಟಾಕ್ಷವೀಕ್ಷಣೇನ ಮಾಂ- ಆಲೋಕಯ ಆಲೋಕಯ ಸಂಜೀವಯ ಸಂಜೀವಯ ಕ್ಷುತ್ತೃಷ್ಣಾರ್ತಂ ಮಾಮ್ ಆಪ್ಯಾಯಯ ಆಪ್ಯಾಯಯ ದುಃಖಾತುರಂ ಮಾಮ್ ಆನಂದಯ ಆನಂದಯ ಶಿವಕವಚೇನ ಮಾಮ್ ಆಚ್ಛಾದಯ ಆಚ್ಛಾದಯ

ಹರ ಹರ ಮೃತ್ಯುಂಜಯ ತ್ರ್ಯಂಬಕ ಸದಾಶಿವ ಪರಮಶಿವ ನಮಸ್ತೇ ನಮಸ್ತೇ ನಮಃ ||

ಪೂರ್ವವತ್ – ಹೃದಯಾದಿ ನ್ಯಾಸಃ |

ಪಂಚಪೂಜಾ ||

ಭೂರ್ಭುವಸ್ಸುವರೋಮಿತಿ ದಿಗ್ವಿಮೋಕಃ ||

ಫಲಶ್ರುತಿಃ
ಋಷಭ ಉವಾಚ ಇತ್ಯೇತತ್ಪರಮಂ ಶೈವಂ ಕವಚಂ ವ್ಯಾಹೃತಂ ಮಯಾ |
ಸರ್ವ ಬಾಧಾ ಪ್ರಶಮನಂ ರಹಸ್ಯಂ ಸರ್ವ ದೇಹಿನಾಮ್ ||

ಯಃ ಸದಾ ಧಾರಯೇನ್ಮರ್ತ್ಯಃ ಶೈವಂ ಕವಚಮುತ್ತಮಮ್ |
ನ ತಸ್ಯ ಜಾಯತೇ ಕಾಪಿ ಭಯಂ ಶಂಭೋರನುಗ್ರಹಾತ್ ||

ಕ್ಷೀಣಾಯುಃ ಪ್ರಾಪ್ತಮೃತ್ಯುರ್ವಾ ಮಹಾರೋಗಹತೋ‌உಪಿ ವಾ |
ಸದ್ಯಃ ಸುಖಮವಾಪ್ನೋತಿ ದೀರ್ಘಮಾಯುಶ್ಚ ವಿಂದತಿ ||

ಸರ್ವದಾರಿದ್ರಯಶಮನಂ ಸೌಮಾಂಗಲ್ಯವಿವರ್ಧನಮ್ |
ಯೋ ಧತ್ತೇ ಕವಚಂ ಶೈವಂ ಸ ದೇವೈರಪಿ ಪೂಜ್ಯತೇ ||

ಮಹಾಪಾತಕಸಂಘಾತೈರ್ಮುಚ್ಯತೇ ಚೋಪಪಾತಕೈಃ |
ದೇಹಾಂತೇ ಮುಕ್ತಿಮಾಪ್ನೋತಿ ಶಿವವರ್ಮಾನುಭಾವತಃ ||

ತ್ವಮಪಿ ಶ್ರದ್ದಯಾ ವತ್ಸ ಶೈವಂ ಕವಚಮುತ್ತಮಮ್ |
ಧಾರಯಸ್ವ ಮಯಾ ದತ್ತಂ ಸದ್ಯಃ ಶ್ರೇಯೋ ಹ್ಯವಾಪ್ಸ್ಯಸಿ ||

ಶ್ರೀಸೂತ ಉವಾಚ

ಇತ್ಯುಕ್ತ್ವಾ ಋಷಭೋ ಯೋಗೀ ತಸ್ಮೈ ಪಾರ್ಥಿವ ಸೂನವೇ |
ದದೌ ಶಂಖಂ ಮಹಾರಾವಂ ಖಡ್ಗಂ ಚ ಅರಿನಿಷೂದನಮ್ ||

ಪುನಶ್ಚ ಭಸ್ಮ ಸಂಮಂತ್ರ್ಯ ತದಂಗಂ ಪರಿತೋ‌உಸ್ಪೃಶತ್ |
ಗಜಾನಾಂ ಷಟ್ಸಹಸ್ರಸ್ಯ ತ್ರಿಗುಣಸ್ಯ ಬಲಂ ದದೌ ||

ಭಸ್ಮಪ್ರಭಾವಾತ್ ಸಂಪ್ರಾಪ್ತಬಲೈಶ್ವರ್ಯ ಧೃತಿ ಸ್ಮೃತಿಃ |
ಸ ರಾಜಪುತ್ರಃ ಶುಶುಭೇ ಶರದರ್ಕ ಇವ ಶ್ರಿಯಾ ||

ತಮಾಹ ಪ್ರಾಂಜಲಿಂ ಭೂಯಃ ಸ ಯೋಗೀ ನೃಪನಂದನಮ್ |
ಏಷ ಖಡ್ಗೋ ಮಯಾ ದತ್ತಸ್ತಪೋಮಂತ್ರಾನುಭಾವತಃ ||

ಶಿತಧಾರಮಿಮಂ ಖಡ್ಗಂ ಯಸ್ಮೈ ದರ್ಶಯಸೇ ಸ್ಫುಟಮ್ |
ಸ ಸದ್ಯೋ ಮ್ರಿಯತೇ ಶತ್ರುಃ ಸಾಕ್ಷಾನ್ಮೃತ್ಯುರಪಿ ಸ್ವಯಮ್ ||

ಅಸ್ಯ ಶಂಖಸ್ಯ ನಿರ್ಹ್ರಾದಂ ಯೇ ಶೃಣ್ವಂತಿ ತವಾಹಿತಾಃ |
ತೇ ಮೂರ್ಚ್ಛಿತಾಃ ಪತಿಷ್ಯಂತಿ ನ್ಯಸ್ತಶಸ್ತ್ರಾ ವಿಚೇತನಾಃ ||

ಖಡ್ಗಶಂಖಾವಿಮೌ ದಿವ್ಯೌ ಪರಸೈನ್ಯವಿನಾಶಕೌ |
ಆತ್ಮಸೈನ್ಯಸ್ವಪಕ್ಷಾಣಾಂ ಶೌರ್ಯತೇಜೋವಿವರ್ಧನೌ ||

ಏತಯೋಶ್ಚ ಪ್ರಭಾವೇನ ಶೈವೇನ ಕವಚೇನ ಚ |
ದ್ವಿಷಟ್ಸಹಸ್ರ ನಾಗಾನಾಂ ಬಲೇನ ಮಹತಾಪಿ ಚ ||

ಭಸ್ಮಧಾರಣ ಸಾಮರ್ಥ್ಯಾಚ್ಛತ್ರುಸೈನ್ಯಂ ವಿಜೇಷ್ಯಸೇ |
ಪ್ರಾಪ್ಯ ಸಿಂಹಾಸನಂ ಪಿತ್ರ್ಯಂ ಗೋಪ್ತಾ‌உಸಿ ಪೃಥಿವೀಮಿಮಾಮ್ ||

ಇತಿ ಭದ್ರಾಯುಷಂ ಸಮ್ಯಗನುಶಾಸ್ಯ ಸಮಾತೃಕಮ್ |
ತಾಭ್ಯಾಂ ಸಂಪೂಜಿತಃ ಸೋ‌உಥ ಯೋಗೀ ಸ್ವೈರಗತಿರ್ಯಯೌ ||

ಇತಿ ಶ್ರೀಸ್ಕಾಂದಮಹಾಪುರಾಣೇ ಬ್ರಹ್ಮೋತ್ತರಖಂಡೇ ಶಿವಕವಚ ಪ್ರಭಾವ ವರ್ಣನಂ ನಾಮ ದ್ವಾದಶೋ‌உಧ್ಯಾಯಃ ಸಂಪೂರ್ಣಃ || ||

.


asya śrī śivakavaca stotra mahāmantrasya ṛṣabhayogīśvara ṛṣiḥ |
anuṣṭup chandaḥ |
śrīsāmbasadāśivo devatā |
oṃ bījam |
namaḥ śaktiḥ |
śivāyeti kīlakam |
mama sāmbasadāśivaprītyarthe jape viniyogaḥ ||

karanyāsaḥ
oṃ sadāśivāya aṅguṣṭhābhyāṃ namaḥ | naṃ gaṅgādharāya tarjanībhyāṃ namaḥ | maṃ mṛtyuñjayāya madhyamābhyāṃ namaḥ |

śiṃ śūlapāṇaye anāmikābhyāṃ namaḥ | vāṃ pinākapāṇaye kaniṣṭhikābhyāṃ namaḥ | yam umāpataye karatalakarapṛṣṭhābhyāṃ namaḥ |

hṛdayādi aṅganyāsaḥ
oṃ sadāśivāya hṛdayāya namaḥ | naṃ gaṅgādharāya śirase svāhā | maṃ mṛtyuñjayāya śikhāyai vaṣaṭ |

śiṃ śūlapāṇaye kavacāya hum | vāṃ pinākapāṇaye netratrayāya vauṣaṭ | yam umāpataye astrāya phaṭ | bhūrbhuvassuvaromiti digbandhaḥ ||

dhyānam
vajradaṃṣṭraṃ trinayanaṃ kālakaṇṭha marindamam |
sahasrakaramatyugraṃ vande śambhum umāpatim ||
rudrākṣakaṅkaṇalasatkaradaṇḍayugmaḥ pālāntarālasitabhasmadhṛtatripuṇḍraḥ |
pañcākṣaraṃ paripaṭhan varamantrarājaṃ dhyāyan sadā paśupatiṃ śaraṇaṃ vrajethāḥ ||

ataḥ paraṃ sarvapurāṇaguhyaṃ niḥśeṣapāpaughaharaṃ pavitram |
jayapradaṃ sarvavipatpramocanaṃ vakṣyāmi śaivam kavacaṃ hitāya te ||

pañcapūjā
laṃ pṛthivyātmane gandhaṃ samarpayāmi |
ham ākāśātmane puṣpaiḥ pūjayāmi |
yaṃ vāyvātmane dhūpam āghrāpayāmi |
ram agnyātmane dīpaṃ darśayāmi |
vam amṛtātmane amṛtaṃ mahānaivedyaṃ nivedayāmi |
saṃ sarvātmane sarvopacārapūjāṃ samarpayāmi ||

mantraḥ

ṛṣabha uvāca

namaskṛtya mahādevaṃ viśvavyāpinamīśvaram |
vakṣye śivamayaṃ varma sarvarakṣākaraṃ nṛṇām || 1 ||

śucau deśe samāsīno yathāvatkalpitāsanaḥ |
jitendriyo jitaprāṇaścintayecchivamavyayam || 2 ||

hṛtpuṇḍarīkāntarasanniviṣṭaṃ svatejasā vyāptanabhovakāśam |
atīndriyaṃ sūkṣmamanantamādyaṃ dhyāyet parānandamayaṃ maheśam ||

dhyānāvadhūtākhilakarmabandha- ściraṃ cidānanda nimagnacetāḥ |
ṣaḍakṣaranyāsa samāhitātmā śaivena kuryātkavacena rakṣām ||

māṃ pātu devokhiladevatātmā saṃsārakūpe patitaṃ gabhīre |
tannāma divyaṃ paramantramūlaṃ dhunotu me sarvamaghaṃ hṛdistham ||

sarvatra māṃ rakṣatu viśvamūrti- rjyotirmayānandaghanaścidātmā |
aṇoraṇiyānuruśaktirekaḥ sa īśvaraḥ pātu bhayādaśeṣāt ||

yo bhūsvarūpeṇa bibharti viśvaṃ pāyātsa bhūmergiriśoṣṭamūrtiḥ |
yopāṃ svarūpeṇa nṛṇāṃ karoti sañjīvanaṃ sovatu māṃ jalebhyaḥ ||

kalpāvasāne bhuvanāni dagdhvā sarvāṇi yo nṛtyati bhūrilīlaḥ |
sa kālarudrovatu māṃ davāgneḥ vātyādibhīterakhilācca tāpāt ||

pradīptavidyutkanakāvabhāso vidyāvarābhīti kuṭhārapāṇiḥ |
caturmukhastatpuruṣastrinetraḥ prācyāṃ sthito rakṣatu māmajasram ||

kuṭhārakheṭāṅkuśa śūlaḍhakkā- kapālapāśākṣa guṇāndadhānaḥ |
caturmukho nīlarucistrinetraḥ pāyādaghoro diśi dakṣiṇasyām ||

kundenduśaṅkhasphaṭikāvabhāso vedākṣamālā varadābhayāṅkaḥ |
tryakṣaścaturvaktra uruprabhāvaḥ sadyodhijātovatu māṃ pratīcyām ||

varākṣamālābhayaṭaṅkahastaḥ sarojakiñjalkasamānavarṇaḥ |
trilocanaścārucaturmukho māṃ pāyādudīcyāṃ diśi vāmadevaḥ ||

vedābhayeṣṭāṅkuśaṭaṅkapāśa- kapālaḍhakkākṣaraśūlapāṇiḥ |
sitadyutiḥ pañcamukhovatānmām īśāna ūrdhvaṃ paramaprakāśaḥ ||

mūrdhānamavyānmama candramauliḥ bhālaṃ mamāvyādatha bhālanetraḥ |
netre mamāvyādbhaganetrahārī nāsāṃ sadā rakṣatu viśvanāthaḥ ||

pāyācchrutī me śrutigītakīrtiḥ kapolamavyātsatataṃ kapālī |
vaktraṃ sadā rakṣatu pañcavaktro jihvāṃ sadā rakṣatu vedajihvaḥ ||

kaṇṭhaṃ girīśovatu nīlakaṇṭhaḥ pāṇidvayaṃ pātu pinākapāṇiḥ |
dormūlamavyānmama dharmabāhuḥ vakṣaḥsthalaṃ dakṣamakhāntakovyāt ||

mamodaraṃ pātu girīndradhanvā madhyaṃ mamāvyānmadanāntakārī |
herambatāto mama pātu nābhiṃ pāyātkaṭiṃ dhūrjaṭirīśvaro me ||

ūrudvayaṃ pātu kuberamitro jānudvayaṃ me jagadīśvarovyāt |
jaṅghāyugaṃ puṅgavaketuravyāt pādau mamāvyātsuravandyapādaḥ ||

maheśvaraḥ pātu dinādiyāme māṃ madhyayāmevatu vāmadevaḥ |
trilocanaḥ pātu tṛtīyayāme vṛṣadhvajaḥ pātu dināntyayāme ||

pāyānniśādau śaśiśekharo māṃ gaṅgādharo rakṣatu māṃ niśīthe |
gaurīpatiḥ pātu niśāvasāne mṛtyuñjayo rakṣatu sarvakālam ||

antaḥsthitaṃ rakṣatu śaṅkaro māṃ sthāṇuḥ sadā pātu bahiḥsthitaṃ mām |
tadantare pātu patiḥ paśūnāṃ sadāśivo rakṣatu māṃ samantāt ||

tiṣṭhantamavyād bhuvanaikanāthaḥ pāyādvrajantaṃ pramathādhināthaḥ |
vedāntavedyovatu māṃ niṣaṇṇaṃ māmavyayaḥ pātu śivaḥ śayānam ||

mārgeṣu māṃ rakṣatu nīlakaṇṭhaḥ śailādidurgeṣu puratrayāriḥ |
araṇyavāsādi mahāpravāse pāyānmṛgavyādha udāraśaktiḥ ||

kalpāntakālograpaṭuprakopa- sphuṭāṭṭahāsoccalitāṇḍakośaḥ |
ghorārisenārṇava durnivāra- mahābhayādrakṣatu vīrabhadraḥ ||

pattyaśvamātaṅgarathāvarūthinī- sahasralakṣāyuta koṭibhīṣaṇam |
akṣauhiṇīnāṃ śatamātatāyināṃ chindyānmṛḍo ghorakuṭhāra dhārayā ||

nihantu dasyūnpralayānalārciḥ jvalattriśūlaṃ tripurāntakasya | śārdūlasiṃharkṣavṛkādihiṃsrān santrāsayatvīśadhanuḥ pinākaḥ ||

duḥ svapna duḥ śakuna durgati daurmanasya- durbhikṣa durvyasana duḥsaha duryaśāṃsi | utpātatāpaviṣabhītimasadgrahārtiṃ vyādhīṃśca nāśayatu me jagatāmadhīśaḥ ||

oṃ namo bhagavate sadāśivāya

sakalatatvātmakāya sarvamantrasvarūpāya sarvayantrādhiṣṭhitāya sarvatantrasvarūpāya sarvatatvavidūrāya brahmarudrāvatāriṇe nīlakaṇṭhāya pārvatīmanoharapriyāya somasūryāgnilocanāya bhasmoddhūlitavigrahāya mahāmaṇi mukuṭadhāraṇāya māṇikyabhūṣaṇāya sṛṣṭisthitipralayakāla- raudrāvatārāya dakṣādhvaradhvaṃsakāya mahākālabhedanāya mūladhāraikanilayāya tatvātītāya gaṅgādharāya sarvadevādidevāya ṣaḍāśrayāya vedāntasārāya trivargasādhanāya anantakoṭibrahmāṇḍanāyakāya ananta vāsuki takṣaka- karkoṭaka śaṅkha kulika- padma mahāpadmeti- aṣṭamahānāgakulabhūṣaṇāya praṇavasvarūpāya cidākāśāya ākāśa dik svarūpāya grahanakṣatramāline sakalāya kalaṅkarahitāya sakalalokaikakartre sakalalokaikabhartre sakalalokaikasaṃhartre sakalalokaikagurave sakalalokaikasākṣiṇe sakalanigamaguhyāya sakalavedāntapāragāya sakalalokaikavarapradāya sakalalokaikaśaṅkarāya sakaladuritārtibhañjanāya sakalajagadabhayaṅkarāya śaśāṅkaśekharāya śāśvatanijāvāsāya nirākārāya nirābhāsāya nirāmayāya nirmalāya nirmadāya niścintāya nirahaṅkārāya niraṅkuśāya niṣkalaṅkāya nirguṇāya niṣkāmāya nirūpaplavāya nirupadravāya niravadyāya nirantarāya niṣkāraṇāya nirātaṅkāya niṣprapañcāya nissaṅgāya nirdvandvāya nirādhārāya nīrāgāya niṣkrodhāya nirlopāya niṣpāpāya nirbhayāya nirvikalpāya nirbhedāya niṣkriyāya nistulāya niḥsaṃśayāya nirañjanāya nirupamavibhavāya nityaśuddhabuddhamuktaparipūrṇa- saccidānandādvayāya paramaśāntasvarūpāya paramaśāntaprakāśāya tejorūpāya tejomayāya tejodhipataye jaya jaya rudra mahārudra mahāraudra bhadrāvatāra mahābhairava kālabhairava kalpāntabhairava kapālamālādhara khaṭvāṅga carmakhaḍgadhara pāśāṅkuśa- ḍamarūśūla cāpabāṇagadāśaktibhindipāla- tomara musala mudgara pāśa parigha- bhuśuṇḍī śataghnī cakrādyāyudhabhīṣaṇākāra- sahasramukhadaṃṣṭrākarālavadana vikaṭāṭṭahāsa visphārita brahmāṇḍamaṇḍala nāgendrakuṇḍala nāgendrahāra nāgendravalaya nāgendracarmadhara nāgendraniketana mṛtyuñjaya tryambaka tripurāntaka viśvarūpa virūpākṣa viśveśvara vṛṣabhavāhana viṣavibhūṣaṇa viśvatomukha sarvatomukha māṃ rakṣa rakṣa jvalajvala prajvala prajvala mahāmṛtyubhayaṃ śamaya śamaya apamṛtyubhayaṃ nāśaya nāśaya rogabhayam utsādayotsādaya viṣasarpabhayaṃ śamaya śamaya corān māraya māraya mama śatrūn uccāṭayoccāṭaya triśūlena vidāraya vidāraya kuṭhāreṇa bhindhi bhindhi khaḍgena chinddi chinddi khaṭvāṅgena vipodhaya vipodhaya musalena niṣpeṣaya niṣpeṣaya bāṇaiḥ santāḍaya santāḍaya yakṣa rakṣāṃsi bhīṣaya bhīṣaya aśeṣa bhūtān vidrāvaya vidrāvaya kūṣmāṇḍabhūtavetālamārīgaṇa- brahmarākṣasagaṇān santrāsaya santrāsaya mama abhayaṃ kuru kuru mama pāpaṃ śodhaya śodhaya vitrastaṃ mām āśvāsaya āśvāsaya narakamahābhayān mām uddhara uddhara amṛtakaṭākṣavīkṣaṇena māṃ- ālokaya ālokaya sañjīvaya sañjīvaya kṣuttṛṣṇārtaṃ mām āpyāyaya āpyāyaya duḥkhāturaṃ mām ānandaya ānandaya śivakavacena mām ācchādaya ācchādaya

hara hara mṛtyuñjaya tryambaka sadāśiva paramaśiva namaste namaste namaḥ ||

pūrvavat – hṛdayādi nyāsaḥ |

pañcapūjā ||

bhūrbhuvassuvaromiti digvimokaḥ ||

phalaśrutiḥ
ṛṣabha uvāca ityetatparamaṃ śaivaṃ kavacaṃ vyāhṛtaṃ mayā |
sarva bādhā praśamanaṃ rahasyaṃ sarva dehinām ||

yaḥ sadā dhārayenmartyaḥ śaivaṃ kavacamuttamam |
na tasya jāyate kāpi bhayaṃ śambhoranugrahāt ||

kṣīṇāyuḥ prāptamṛtyurvā mahārogahatopi vā |
sadyaḥ sukhamavāpnoti dīrghamāyuśca vindati ||

sarvadāridrayaśamanaṃ saumāṅgalyavivardhanam |
yo dhatte kavacaṃ śaivaṃ sa devairapi pūjyate ||

mahāpātakasaṅghātairmucyate copapātakaiḥ |
dehānte muktimāpnoti śivavarmānubhāvataḥ ||

tvamapi śraddayā vatsa śaivaṃ kavacamuttamam |
dhārayasva mayā dattaṃ sadyaḥ śreyo hyavāpsyasi ||

śrīsūta uvāca

ityuktvā ṛṣabho yogī tasmai pārthiva sūnave |
dadau śaṅkhaṃ mahārāvaṃ khaḍgaṃ ca ariniṣūdanam ||

punaśca bhasma saṃmantrya tadaṅgaṃ paritospṛśat |
gajānāṃ ṣaṭsahasrasya triguṇasya balaṃ dadau ||

bhasmaprabhāvāt samprāptabalaiśvarya dhṛti smṛtiḥ |
sa rājaputraḥ śuśubhe śaradarka iva śriyā ||

tamāha prāñjaliṃ bhūyaḥ sa yogī nṛpanandanam |
eṣa khaḍgo mayā dattastapomantrānubhāvataḥ ||

śitadhāramimaṃ khaḍgaṃ yasmai darśayase sphuṭam |
sa sadyo mriyate śatruḥ sākṣānmṛtyurapi svayam ||

asya śaṅkhasya nirhrādaṃ ye śṛṇvanti tavāhitāḥ |
te mūrcchitāḥ patiṣyanti nyastaśastrā vicetanāḥ ||

khaḍgaśaṅkhāvimau divyau parasainyavināśakau |
ātmasainyasvapakṣāṇāṃ śauryatejovivardhanau ||

etayośca prabhāvena śaivena kavacena ca |
dviṣaṭsahasra nāgānāṃ balena mahatāpi ca ||

bhasmadhāraṇa sāmarthyācchatrusainyaṃ vijeṣyase |
prāpya siṃhāsanaṃ pitryaṃ goptāsi pṛthivīmimām ||

iti bhadrāyuṣaṃ samyaganuśāsya samātṛkam |
tābhyāṃ sampūjitaḥ sotha yogī svairagatiryayau ||

iti śrīskāndamahāpurāṇe brahmottarakhaṇḍe śivakavaca prabhāva varṇanaṃ nāma dvādaśodhyāyaḥ sampūrṇaḥ || ||

.


We will update this page, once we find comprehensive meaning. Feel free to contribute if you know.

.

, ,

No comments yet.

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.